________________
२३०
श्रीगौतमीयकाव्यं अनादिमिथ्यात्वकषाययोगाऽव्रतप्रमादाभिधहेतुसङ्गात् । अज्ञानेभावेन यतः प्रवृत्तिं जीवस्य वित्तात्त्वमनादितोऽपि ॥३२॥ ३ हे मण्डित ! यतो यस्मात्कारणात् मिथ्यात्वानि आभिगृहिकादीनि कषायाः क्रोधादयः योगा मनोयोगादयः अव्रतानि प्राणातिपाताऽविरत्यादीनि तान्येव प्रमादा अनवधानताखरूपास्तेऽभिधा नाम येषां ६ ते तथोक्ता एवंविधा ये हेतवः कर्मबन्धकारणानि ते तथोक्ता, अनादिः आदिरहितो यो मिथ्यात्वकषाययोगाव्रतप्रमादाभिधहेतूनां सङ्गस्तस्मात् , पुनरज्ञानस्य यो भावः सद्भावस्तेन त्वं अनादितोऽपि ९ अनादिकालादपि जीवस्य प्रवृत्तिं विविधकर्मबन्ध-नानायोनिपरिभ्रमणादिरूपां वित्तात् जानीहि, अनादिमिथ्यात्वादिहेतुसम्बन्धा
दनादिरेव जीवकर्मसन्तान इति भावः ॥ ३२॥ १२ अनादिकर्माणि तदाश्रयाणि तत्सन्ततोत्पत्तिरनादिरेवम् ।
अज्ञानयोगात्सगुणोऽयमात्मा स्वकर्मबद्धव्यपदेशमेति ॥३३॥
- स जीव आश्रयो येषां तानि तदाश्रयाणि, अनादीनि कर्माणि, १५ सन्तीति शेषः । एवममुना प्रकारेण तेषां जीवाश्रितकर्मणां सन्ततं निरन्तरमुत्पत्तिरप्यनादिरस्ति । ततश्च अज्ञानयोगादज्ञानसम्बन्धात
सगुणस्तमोगुणादियुक्तोऽयमात्मा खकर्मभिर्बद्ध इत्येवंरूपो यो व्यप१८ देशः कथनं तम् एति प्राप्नोति ॥ ३३ ॥ पिता स पुत्रश्च पिता स पुत्रः सम्बन्ध एष व विराममेति ? । तथा निमित्तं हि तदेव कर्मान्वयोऽप्ययं शृङ्खलयाऽस्त्यनादिः ३४
कश्चिद्विवक्षितः पुमान् वपुत्रस्य पिता वर्तते, स एव स पितुः २२ पुत्रश्च तथा यस्मादयं समुत्पन्नः सोऽस्य पिता वर्त्तते, स एव खपितुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org