SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २२९ सकर्मसन्तानस्यानादित्वसाधनमसम्बद्धमिव लक्ष्यते' - तदयुक्तमभि - प्रायापरिज्ञानात् । नहि अकृतं कर्म सम्भवति, क्रियते इति कर्म इति व्युत्पत्तेः, यच्च तस्य करणं तदेव बन्ध इति कथं न तत्सिद्धिः ? तथा ३ देहकर्मणोः कर्त्ता' कर्मदेहखरूपकरणयुक्तो जीवोsवगन्तव्यो घटस्य दण्डादिकरणयुक्त कुलालवदिति ॥ ३० ॥ यच्चोक्तं ' योऽनादिः संयोगः सोऽनन्तो दृष्ट इत्यादि' तत्राह – ६ अनादितो मृन्मिलितं सुवर्णं यथा वियुज्येत कृताऽभ्युपायात् । अनादिवद्धो धनकर्मजालैर्ज्ञानक्रियाभ्यां हि तथाऽयमात्मा ३१ यथाऽनादितोऽनादिकालात मृदा मृत्तिकया मिलितं सुवर्णं कृतो विहितो योऽभ्युपायोऽग्नितापादिरुपायः तस्माद्वियुज्यते, मृत्तिकातः पृथग्भवतीत्यर्थः । तथा तेनैव प्रकारेण घनैर्निबिडैः कर्मजालैरनादिबद्धोऽयमात्मा जीवो हीति निश्चितं, ज्ञानक्रियाभ्यां सदागमाभ्या - १२ सतपःसंयमाद्युपायाभ्यां कर्मभ्यो वियुज्यते । एतावता यथा काञ्चनोपलयोरनादिकालप्रवृत्तसन्तान भागवतोऽपि संयोगोऽग्नितापाद्युपायाद्व्यवच्छिद्यते तथा जीवकर्मणोरपि संयोगोऽनादिसन्तान - १५ गतोऽपि तपः संयमाद्युपायाद्यवच्छिद्यते इति न मोक्षाभाव, इति निर्गलितार्थः। एवं बीजाङ्कुरयोः कुक्कुटा-ण्डकयो ः पिता-पुत्रयोरपि च अन्यतरद् यदाऽनिष्पादितकार्यमेव विनश्यति, तदा तयोरपि अनादिः १४ सन्तानो व्यवच्छिद्यते इति योऽनादिसन्तानः सोऽनन्तोऽपीति नाऽयमेकान्त इति ॥ ३१ ॥ पुनर्जीवकर्मणोः सन्तानस्याऽनादित्वमेव स्पष्टयन्नाह - १ क्रमेण । २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy