SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २२८ श्रीगौतमीयकाव्यं शयोः। नहि आकाशेन सह जीवस्य कदाचिदपि संयोगो निवर्तते । एवं कर्मणाऽपि सहाऽसौ न निवर्तते, तथा च सति मुत्यभाव३प्रसङ्गः, इत्युक्तयुक्त्या बन्ध-मोक्षौ जीवस्य न घटेते, श्रूयेते च वेदवाक्येष्वेतौ ततस्तव संशयोऽयमिति ॥ २९ ॥ इत्थं पूर्वपक्षमुक्त्वा प्रतिविधानमाह६ गृहाण सौम्योत्तरमेतदत्र परस्परं कारण-कार्यभावात् । अनादिसन्तानमवेहि कर्मा९ गयोस्तु बीजाङ्करवन्मनीषिन् ! ॥३०॥ हे सौम्य ! अत्राऽस्मिन् सन्दिग्धेऽर्थे एतदनन्तरमुच्यमानमुत्तरं गृहाण अङ्गीकुरु । किमेतदित्याह-मनीषा बुद्धिरस्याऽस्तीति मनीषी १२ तत्सम्बुद्धौ हे मनीषिन् ! हे प्राज्ञ ! कर्म च अङ्गं च कर्माङ्गं तयोः कर्म-शरीरयोः तु इति विशेषे, बीजाङ्कुरवत् बीजाङ्कुरयोरिव परस्परमन्योन्यं कारण-कार्यभावादऽनादिसन्तानमऽनादिसन्ततिमवेहि १५ जानीहि । इदमत्र तात्पर्यम्— “यत्तावदुक्तं किं पूर्व जीवः पश्चात्कर्म उत व्यत्यय इत्यादि ?"---तत्सर्वमयुक्तं, 'कुत इति चेदु'च्यतेशरीरकर्मणोरनादिः सन्तान इति प्रतिज्ञा, परस्परं कारणकार्यभावात् , १८ बीजाङ्कुरवदिति । ततश्च प्रागुक्तं सर्वमघटमानम् एवाऽनादित्वात् तत्सन्तानस्येति । देहकर्मसन्तानस्याऽनादित्वं त्वित्थं अस्ति--स कश्चि. देहो योऽग्रेतनस्य कर्मणः कारणं यश्चान्यस्यातीतस्य कर्मणः कार्य, तथा २१ कर्माऽपि तत् समस्ति यदग्रेतनस्य देहस्य कारणं, यश्चान्यस्यातीतस्य देहस्य कार्यमित्येवमनादौ संसारे न कचिद्विश्राम इत्यतोऽनादिदेह२३ कर्मसन्तान इति । आह-'ननु बन्धमोक्षाविह साधयितुं प्रस्तुतौ ततः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy