________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २२७ वा कर्म पश्चाजीव उत्पद्येते ?, युगपद्वा तौ द्वावपि उत्पद्येयाताम् ?, इति पक्षत्रयम् । तत्र पूर्व जीवः पश्चात्कर्मेत्याद्यपक्षस्तु अयुक्तः । यतो न कर्मणः पूर्व खरशृङ्गस्येवात्मनः संभवो युक्तोऽहेतुकत्वात् । इह ३ यदहेतुकं तन्न जायते, यथा खरशृङ्ग, यच्च जायते तन्निर्हेतुकमपि न भवति, यथा घटः, निष्कारणस्य च जातस्य निष्कारण एव विनाशः स्यादिति । अथ कर्मणः पूर्वमात्माऽनादिकालसिद्ध एवेति किं तस्य ६ सहेतुक-निर्हेतुकत्वचिन्तयेति चेत्तर्हि जीवस्य कर्मबन्धो न प्रामोति, अकारणत्वादाकाशस्येव । अथ निष्कारणोऽप्यसौ भवति तर्हि मुक्तस्याऽपि पुनः स भविष्यति निष्कारणत्वाविशेषात्ततश्च मुक्तावप्यना- ९ श्वासोऽथवा कर्मयोगाभावान्नित्यमुक्त एवाऽसौ भवेत् , यदि वा बन्धाभावे कस्तस्य मोक्षव्यपदेशः ? न ह्यस्य नभसो मुक्तव्यपदेशः कस्यापि संमतः, बन्धपूर्वकत्वान्मोक्षस्य, तस्मान्न पूर्व जीवः पश्चात्कम-१२ त्याद्यविकल्पः । अथ पूर्व कर्म पश्चाज्जीवो युगपद्वा द्वावपीति ? पक्षद्वयमपि न संभवति, तथा हि-न च जीवात्माकर्मणोऽपि समु. द्भवो युक्तः । कर्तुर्जीवस्य तदानीमभावादक्रियमाणस्य च कर्मत्वा-१५ योगान्निष्कारणश्चेत्कर्मसमुद्भवः स्यात्तर्हि अकारणजातस्याऽकारणत एव विनाशोऽपि स्यादिति । तथा युगपदुत्पत्तिभावे च प्रत्येकपक्षोक्ता दोषा वाच्याः, निर्हेतुकत्वात्प्रत्येकवदुभयस्यापि समुदितस्यानुत्पत्ति-१४ रित्यादि । न च युगपदुत्पन्नयोर्जीवकर्मणोरयं जीवः कर्ता इदं च ज्ञानावरणादिपुद्गलवृन्दं कर्मेति कर्तृ-कर्मभावो युज्यते, यथा लोके सव्येतरगोविषाणयोरिति । अथ द्वितीयो मूलविकल्पो न संभवति, २१ तथा हि-यदि अनादिरेव जीव-कर्मणोः सम्बन्धः स्यात्तर्हि मोक्षो न घटते, यस्माद्योऽनादिः संयोगः सोऽनन्तो दृष्टो यथा जीवाऽऽका-२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org