________________
२२६
श्रीगौतमीयकाव्यं वाऽथवा वेदोक्तिभिः प्रागुक्तवेदवचनैस्त्वमिति शङ्कां दधासि धारयसि, इतीति किमित्याह-हीति निश्चितं, अत्रास्मिन् विश्वे ३ जगति कर्मभिर्बद्धो जीवो विवशः कर्मवशत्वादनात्मवशः सन् नानागतीर्याति अनेकविधासु गतिषु संसरतीत्यर्थः, न पुनर्मुक्तः कर्मविरहितो जीवः, कर्मविरहादेव तस्य तदसंभवात् । अयं च जन्तुर्वि६ गुणः सत्त्वादिगुणरहितो न बद्धः कर्मभिर्न (च) मुक्त इति कथं नानागतिगमनमेतस्य सञ्जाघटीति ? ॥२८॥ ___ इत्थं मण्डितस्य संशयमाविष्कृत्य तद्वितर्कितयुक्तिं प्रादु९ष्कुर्वन्नाह
स्यात् सादिबन्धे सति चेतनादे
निर्हेतुकत्वान्न हि संभवोऽपि । १२ अनादिबन्धे तु भवेन मोक्षो
युक्तीरिति स्फोरयसे वृथा त्वम् ॥ २९ ॥ आत्मना सह कर्मणः सादिबन्धे सति हीति निश्चितं, निर्हेतुकत्वा१५ द्धत्वभावात् चेतन आदिर्यस्य स चेतनादिस्तस्य, आत्मकर्मणोरित्यर्थः,
संभवोऽपि न स्यात् उत्पत्तिरपि न भवेत् , आस्तां संयुक्ततयाऽवस्थानमिति अपिशब्दार्थः । अनादिबन्धे तु सति मोक्षो न भवेत् , अनादेः १८ संयोगस्य जीवाकाशयोरिवाऽनन्तत्वदर्शनात् , तथाचानिष्टापत्तिः,
इतीत्थं त्वं वृथा युक्तीः स्फोरयसे । अयमत्र भावार्थ:-हे मण्डित! त्वमेवं मन्यसे जीवस्य यः कर्मणा सम्बन्धः स आदिमान् आदि२१ रहितो वा, यद्यादिमांस्ततः किं पूर्व जीव उत्पद्येत, पश्चात्कर्म ?, पूर्व
* तस्याऽऽत्मनः तदसंभवात्-संसारस्यासंभवात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org