________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २२५
चितस्तव संशयो विरुद्धवेदपदश्रुतिनिबन्धनत्वात् । तथाहि - 'स एष विगुणो विभुः न बध्यते संसरति वा न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा वेद' इत्यादीनि वेदपदानि, तथा ३ 'न ह वै सशरीरस्य प्रियाऽप्रिययोर पहतिरस्ति अशरीरं वा वसन्तं प्रियाऽप्रिये न स्पृशत' इत्यादीनि च । एतेषां चार्थं त्वं न जानासि, यतोऽयमेतदर्थस्तव चेतसि वर्तते, तद्यथा - स एषः अधिकृतो ६ जन्तुर्विगुणः सत्त्व-रज- स्तमोगुणरहितो विभुः सर्वगतो न बध्यते, पुण्य-पापाभ्यां न युज्यते इत्यर्थः । संसरति वा नेत्यनुवर्त्तते । न मुच्यते न कर्मणाऽभियुज्यते, बन्धस्यैवाभावात् । 'मोचयति वा नान्य' - ९ मित्यनेनाऽकर्तृकत्वमाह । न वा एष बाह्यमात्मभिन्नं महदहङ्कारादि अभ्यन्तरं निजखरूपमेव वा वेद विजानाति, प्रकृतिधर्मत्वाज्ज्ञानस्य, प्रकृतेश्चाऽचेतनत्वात् । ततश्चामूनि किल बन्ध-मोक्षाभावप्रतिपाद - १२ कानि । तथा न ह वै नैवेत्यर्थः सशरीरस्य प्रियाऽप्रिययोर पहतिरस्तीति बाह्या-ध्यात्मिकाऽनादिशरीर सन्तानयुक्तत्वात् सुख-दुःखयोर पहतिः, संसारिणो नास्तीत्यर्थः । अशरीरं वा वसन्तममूर्त्तमित्यर्थः । प्रिया - १५ प्रिये न स्पृशतः तत्कारणभूतस्य कर्मणोऽभावादित्यर्थः । अमूनि च बन्धमोक्षावभिधाय कानीत्यतः संशयः, तत्र स एष विगुणो विभुरित्यादीनां नाऽयमर्थः किन्तु वक्ष्यमाणलक्षण इति ॥ २७ ॥
उक्तमेवार्थं सङ्क्षेपतः सूत्रकृदाहबद्धो हि जीवो विवशोऽत्र विश्वे 'नानागतीर्याति पुनर्न मुक्तः । बद्धो न चाऽयं विगुणो न मुक्तो वेदोक्तभिर्वेति दधासि शङ्काम् ॥ २८ ॥
-
१ बाह्यः अनादिशरीरसन्तानः - औदारिकादिः, आध्यात्मिकश्च कार्मणः । १५ गौ० का ०
Jain Education International
१८
२१
२३
For Private & Personal Use Only www.jainelibrary.org