________________
२२४
श्रीगौतमीयकाव्यं
इत्थं भगवता संशये छिन्ने सति सुधर्मा किं कृतवानित्याहततः सुधर्माऽपि बुधः प्रबुद्धो atri oat पञ्चशतैः स्वशिष्यैः ।
अथाssaतो मण्डितसूरिराजस्साद्वैस्त्रिभिछात्रशतैः समेतः ॥ २६ ॥
६
३५०
ततस्तदनन्तरं बुधो विद्वान् सुधर्मापि प्रबुद्धो भगवद्वचनात्पबोषं प्राप्तः सन् पञ्चशतैः “खंशिष्यैः सह दीक्षां ललौ गृह्णाति स्म । 'ला आदाने' अस्मात्कर्त्तरि लिट् । इति सुधर्मखामि दीक्षाग्रहणमुक्त्वा ९ मण्डितस्य तदाह - अथानन्तरं मण्डितो नाम सूरिराजः पण्डितमुख्यः अर्द्धेन शतेन सह वर्त्तमानैः सार्दैस्त्रिभिश्छात्राणां शिष्याणां शतैः समेतो युक्तः सन् आगतो भगवत्समीपमिति शेषः ॥ २६ ॥ आगच्छ भो पण्डित ! मण्डित ! त्वं स्वामीति संभाष्य पुनस्तमाख्यत् । जीवस्य किं कर्मभिरस्ति बन्धो
मोक्ष वा नेति जहाहि मोहम् ॥ २७ ॥
१२
१५
'भो मण्डितपण्डित ! त्वं आगच्छ' इति संभाष्य इत्थं संभाषणं कृत्वा स्वामी वीरप्रभुः, पुनस्तं मण्डितं आख्यत् अवोचत् । आइ १८ पूर्वात्ख्याधातोर्लुङ् 'अस्यतिवक्ति - ' ( ३|१|५२ ) इति चलेर । किमाख्यदित्याह — जीवस्य कर्मभिः सह बन्घो मोक्षश्च किं अस्ति न वा इति मोहं संशयात्मकमज्ञानं त्वं जहाहि परित्यज, 'ओहाइ त्यागे' जौहोत्यादिकोऽस्माल्लोट् । अत्रायं भावः – हे मण्डित ! २२त्वमित्थं मन्यसे — किं बन्धमोक्षौ स्तो न वा ? इति । अयं चानु
1
-
Jain Education International For Private & Personal Use Only www.jainelibrary.org