________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २२३ अथाऽमुमेवार्थ स्पष्टतरमाहप्राकर्मसिद्धिः प्रतिपादितैव या च क्रिया सा फलशालिनीति । ततोऽर्जितं कर्म विचित्ररूपं विचित्रयोनिप्रतिपत्तयेऽस्तु ॥२४॥३ ___ 'या च काचन क्रिया सा फलशालिनी फलवती दृष्टा' इति वचनेन प्राक् पूर्व अग्मिभूत्यधिकारे कर्मसिद्धिः प्रतिपादिता उक्ता एव । ततस्तस्मात् शुभाऽशुभक्रिययाऽर्जितं उपार्जितं विचित्ररूपं कर्म विचित्र-६ योनीनां प्रतिपत्तये कारणत्वज्ञानाय अस्तु ॥ २४ ॥ .. अमुमेवार्थ दृष्टान्तेन द्रढयन्नाहनाट्ये यथैको भरतो विचित्रान् गृह्णाति वेषानसुमांस्तथैव । ९ ततःसुधर्मन्! परिहृत्य मोहं मन्यस्व सर्वत्र विचित्रभावम् ॥२५॥
यथा नाट्ये नृत्ये एको भरतो नटो विचित्राननेकविधान् वेषान् नेपथ्यानि गृह्णाति रचयति, तथैव असुमान् जीवो नानायोनिषु नाना-१२ रूपान् देहान् गृह्णातीत्यर्थः । ततस्तस्मात्कारणात् हे सुधर्मन् ! मोहमज्ञानं परिहृत्य त्यत्तवा सर्वत्र सर्वस्मिन् जगति विचित्रभावं विचित्रत्वं मन्यख जानीष्व । भरत इति । 'शैलूषो भरतः सर्वकेशी' इत्यादि १५ (हैमः) 'नटः कृशाश्वी शैलाली ति हैमः । असुमानिति । असवः : . प्राणाः सन्त्यस्येति अस्त्यर्थे मतुप् । किं च 'पुरुषो वै पुरुषत्वमश्नुते' इत्यादीनां वेदपदानामयमर्थः-कोऽपि पुरुषः खल्विह जन्मनि १८ प्रकृत्या भद्रको विनीतः सानुक्रोशोऽमत्सरश्च मनुष्यनाम-गोत्रे कर्मणी . बङ्घा मृतः सन् पुरुषत्वमश्नुते, न तु नियमेन सर्व एव, अन्यस्याऽन्यकर्मवशगस्याऽन्यथाप्युत्पत्तेः । एवं पशवोऽपि केचिन्मायादि-२१ दोषवशात्पशुनामगोत्रे कर्मणी बवा परभवे पशवो जायन्ते न तु सर्वेऽपि नियमेन, कर्मापेक्षित्वाज्जीवगतेरिति ॥ २५॥ २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org