________________
२२२
श्रीगौतमीयकाव्यं
भावनीयं विचार्य, नो चेत् यद्येवं न स्यात् , कारणानुरूपमेव कार्य
चेत्स्यादित्यर्थः, तदा केनापि योगेन औषध्यादिप्रयोगेण अयस्तो. ३ लोहात् तपनीयस्य वर्णस्य सिद्धिर्निष्पत्तिः, किमिति प्रश्ने, भवेत् ।, कार्यकारणवैषम्यात्साऽपि न स्यादित्यर्थः । भवति हि सा, तस्मान्न कारणानुरूपमेव कार्यमिति निश्चयः । एवं शृङ्गादपि शरो जायते ६गोलोमाविलोमभ्यश्च दूर्वा प्रभवति, इत्याद्यपि बोध्यम् ॥ २२ ॥
अथवा कारणानुरूपं कार्यमस्तु अत एव भवान्तरे विचित्र रूपता जन्तूनामिति दर्शयति९ चेदाग्रहः कारण-कार्यसाम्ये
तथापि योनिभ्रमणं सुसिद्धम् ।
यत्कारणं कर्म विचित्ररूपं १२ विचित्रयोनिरपि किं न कुर्यात् ? ॥ २३ ॥
हे सुधर्मन् ! तव कारण-कार्ययोः साम्ये सादृश्ये चेद्यदि, आग्र. होऽस्तीति शेषः, तथापि जन्तूनां नानाविधासु योनिषु भ्रमणं सुसिद्धं १५ सुतरां सिद्धम् । कथमित्याह-यद्यस्मात्कारणात् योनिषु भ्रमणे
कारणं विचित्रं रूपं स्वरूपं यस्य तद्विचित्ररूपं कर्म, तद्विचित्रयो: निरपि किं न कुर्यात् ? कुर्यादेवेत्यर्थः । अयं भावः-मिथ्यात्वा१८ ऽविरत्यादिहेतुवैचिव्याद्विचित्रं कर्म मयाऽभिहितं, ततश्च तज्जन्यस्य
भवाङ्करस्यापि जात्यादिभेदेन विचित्रता युक्तैव । अत्र प्रयोगः. चित्रं संसारिजीवानां नारकादिरूपेण संसारित्वमिति प्रतिज्ञा, विचि
त्रस्य कर्मणः फलरूपत्वात् इति हेतुः, इह यद्विचित्रहेतुकं तद्विचित्रं २२ दृष्टं, यथेह विचित्राणां कृषि-वाणिज्यादिकर्मणां फलं लोके इति ॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org