________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २२१
रूपमेव कार्यं भवतीत्यर्थः । तत्र दृष्टान्तमाह — यद् यतो यवो धान्यविशेषो विशीर्य्य भूजलसंयोगे विदीर्य्य, अङ्कुररूपेण भूत्वेत्यर्थः, यवं प्रसूते उत्पादयति, यथा यवबीजानुरूपो यवाङ्कुर इत्यर्थः, तथा ३ तेनैव प्रकारेण हीति निश्चितं य इह भवे मनुष्यः स परभवेऽपि मनुष्यो भवेत् तत्रापि तु इति विशेषे नारी स्त्री नारी एव भवेत् च पुनः पुमान् पुरुषः पुमानेव भवेदिति त्वं संभावयसीत्यर्थः । अयं ६ भावः - इहभवकारणं चान्यजन्म, ततस्तेनापि इहभवसदृशेन भवितव्यमित्येवं मन्यमानस्त्वं इहभवसदृशं सर्वं पुरुषादिकं परभवेऽप्यवेषीति ॥ २० ॥
गीयेत वेदे च शरीरभाजां समस्तयोनिग्रहणं समेषाम् ।
सन्देहमुत्पादयतीति वाक्यं
१२.
शृण्वग्निवेशायन ! तत्समाधिम् ॥ २१ ॥
च पुनर्वेदे शृगालो वै इत्यादिके समेषां सर्वेषां शरीरभाजां जीवानां समस्तयोनिग्रहणं सर्वयोनिखीकारो गीयेत उच्येत, इतीत्थं १५ उभयरूपं वेदवाक्यं सन्देहं संशयं उत्पादयति । हे अग्निवेशायनगोत्रीय ! सुधर्मन् ! तत्समाधिं तस्य समाधानं त्वं शृणु ॥ २१ ॥ यत् कारणेनाऽनुगुणं हि कार्यं नैकान्तिकं तत्परिभावनीयम् । नो चेत्तदा किं तपनीयसिद्धिः
२१
harse योगेन भवेदयस्तः १ ॥ २२ ॥ हीति निश्चितं यत्कारणेन अनुगुणमनुरूपं सदृशमित्यर्थः, कार्यं त्वयाऽभिमतमिति वाक्यशेषः । तत् एकान्तिकं नैश्वयिकं न परि- २३
१८
Jain Education International For Private & Personal Use Only www.jainelibrary.org