________________
२२०
श्रीगौतमीयकाव्यं छात्रैः समं पञ्चशतैः प्रणन्दन्नागत्य तस्थौ जिनसंमुखं सः। कृपालुरप्याह मुधा सुधर्मन् ! मोहं प्रयासीति समं सदृक्षम् ॥१९॥ ३ स सुधर्मा पञ्चशतैश्छात्रैः समं सार्द्ध प्रणन्दन् समृद्धिमान् सन आगत्य जिनसंमुखं तस्थौ अवतिष्ठते स्म । ततः कृपालुः सर्वजगज्जन्तु दयावान् भगवानपि तं प्रति आह उवाच । किमाहेत्याह-हे सुधर्मन् ६ समं सर्व मनुष्यादिकं सदृक्षं इहभवसदृशं परभवेऽपि स्यात् इति मुधा वृथा मोहं मौढ्यं प्रयासि प्राप्नोषि । अयं भावः-त्वमेव मन्यसे यो मनुष्यादिः यादृश इह भवे स परभवेऽपि तादृश एवं ९ स्यात् । नन्वयुक्तोऽयं तव संशयः यतोऽसौ विरुद्धवेदपदश्रुतिनिबन्धने वर्त्तते तानि चाऽमूनि वेदपदानि 'पुरुषो वै पुरुषत्वमश्नुते पशवः
पशुत्वम्' इत्यादि । यथा 'शृगालो वै एष जायते यः सपुरीषो दह्यते १२ इत्यादि । एषां च वेदपदानाममुमर्थ मन्यसे त्वं, पुरुषो मृतः सन
परभवे पुरुषत्वमेवाऽश्नुते प्राप्नोति, तथा पशवो गवादयः पशुत्वमेवे. त्यादि, अमूनि किल भवान्तरगतजन्तुसादृश्यप्रतिपादकानि, तथा १५ शृगालो वै इत्यादीनि तु वैसादृश्यख्यापनानीत्यतस्तव संशयः, अयं
चायुक्त एव, यतोऽमीषां वेदपदानां नायमर्थः किन्तु वक्ष्यमाणलक्षण
इति ॥ १९ ॥ १४ अमुमेवार्थं सुधर्माऽभिमतयुक्त्युक्तिपूर्वं दर्शयन्नाह
सदृक्षता कारण-कार्ययोर्य
द्यवो विशीर्य्याऽपि यवं प्रसूते। तथा मनुष्यो हि भवेन्मनुष्यो
नारी तु नारीति पुमान् पुमांश्च ॥ २०॥ २३ अपि संभावने कारण-कार्ययोः सदृक्षता सादृश्यमस्ति कारणानु.
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org