SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २१९ निशम्य युक्तीरिति वीरवक्रा द्विहाय मोहं समशून्यतायाः। व्यक्तः समं पञ्चशतैः स्खशिष्यैः पथि प्रवव्राज जिनाधिपोक्ते ॥ १७ ॥ इत्यमुना प्रकारेण वीरवत्रात् श्रीवीरवामिनो मुखात् युक्तीरुपपत्तीनिशम्य श्रुत्वा तदालोचनेन समशून्यताया सर्वशून्यताया आवि- ६ र्भावकं मोहमज्ञानं विहाय त्यक्त्वा व्यक्तो नाम उपाध्यायः, पञ्चशतैः खशिष्यैः समं सार्द्ध जिनाधिपोक्ते श्रीवीरप्रभुदर्शिते पथि मार्गे प्रवत्राज प्रव्रज्यां गृहीतवान् ॥ १७ ॥ * इति व्यक्ताचार्यदीक्षाग्रहणम् ॥ ४ ॥ -- अथ सुधर्मणस्तदाहयत्संशयच्छिजगदेकनाथः श्रीवर्द्धमानोऽवततार विश्वे । १२ श्रुत्वेति मेधाविवरः सुधर्मा समुत्सुकोऽभूजिनदर्शनाय ॥१८॥ - यः कश्चित् संशयो यत्संशयस्तं छिनत्तीति यत्संशयच्छित् संशयमात्रछेदीत्यर्थः, अत एव जगतो विश्वस्य एकनाथो जगदेकनाथः १५ एवंविधः श्रीवर्द्धमानो जिनो विश्वे लोकेऽवततार अवतरति स्म, इति श्रुत्वा मेधाविषु विद्वत्सु वरः श्रेष्ठः सुधर्मानामा द्विजः उपाध्यायो जिनदर्शनाय श्रीवीरप्रभुदर्शनार्थं समुत्सुकोऽभूत् । दर्शनायेति । अत्र १८ 'प्रसितोत्सुकाभ्यामिति' तृतीयासप्तम्योः प्राप्तौ सत्यामपि तादर्थ्यविवक्षया चतुर्थी ॥ १८॥ २० १ अत्र 'निशम्य युक्तिमिति' काशीमुद्रितपाठः प्रामादिकः, छन्दोभङ्गदोष. वत्त्वादखारस्याच्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy