________________
२१८
श्रीगौतमीयकाव्यं
. अथ यदुक्तं प्राक् ( अस्मिन्सर्गे ६ श्लोके ) 'सूक्ष्मत्वतो वस्तुनि
नाभिगम्यावाद्यन्तभागा' वित्यादि तत्र प्रतिविधानमाह३ तथाऽऽदि-मध्या-ऽन्तविभागयुक्तिः
पुंसो विवक्षावशगोपदिष्टा। तत्सौम्य ! मा गाः स्वपरप्रणाशं
यतः समृद्धं जगदस्ति सर्वम् ॥ १६ ॥ त्वया उपदिष्टा सर्ववस्त्वभावसाधकत्वेन कथिता या आदिमध्यान्तविभागयुक्तिः साऽपि तथा तेनैव प्रकारेण पुंसः पुरुषस्य वक्तुमिच्छा ९ विवक्षा तस्या वशगा तदधीनैवाऽस्ति न पुनस्तात्त्विकी, घट-पटादिस.
वस्तूनामक्तिनभागस्य, स्फटिका-ऽभ्र(क)पटलादीनां परभागस्य अपि च साक्षादृश्यमानत्वादिति भावः । किंच त्वया सर्वाभावे इष्यमाणे १२ वस्तुन आदिमध्यान्तविभागभेद एव कुतः सङ्गच्छते? सर्वाभावेऽपि
चेत्स भवेत् तर्हि खरविषाणस्यापि कुतो न स्यात् ? इत्यलं विस्तरे.
णेति । तत्तस्मात्कारणात् हे सौम्य ! हे व्यक्त ! सर्वजगतः शून्यत्व१५ स्वीकारेण खस्य परेषां च वस्तूनां प्रणाशमभावं मा गाः मा प्रापः, सर्वाभावं मा स्वीकुर्वित्यर्थः । यतो यस्मात्कारणात्प्रागुक्तयुक्त्या सर्व
जगत् समृद्ध जीवाऽजीवादिसर्वपदार्थरूपर्द्धिसंयुक्तमस्ति न तु केनापि १८प्रकारेण शून्यमिति भावः । मागा इति । माङ् उपपदादिणो लुङ
मध्यमपुरुषैकवचनं 'इणो गा लुङि' (२।४।४५) इति गादेशो 'गातिस्था-' (२।४७७) इति सिचो लुक् ॥ १६ ॥
एवं भगवता भूतास्तित्वे प्रतिपादिते व्यपगतसन्देहोऽसौ व्यक्तः २१ संवेगमापन्नः सन् किं कृतवानित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org