SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २१७ यद्यपि हखत्व-दीर्घत्व-समत्वधर्मा अपेक्षाया वशं गच्छन्तीति अपेक्षावशगा अपेक्षाधीना भवन्ति, तथापि 'एतद्वस्तु हवं, एतद्दीघ, एतत्तु तदुभयम्' इत्येवम्भूतां खसत्तामात्मसद्भावं आलम्बमानमाश्रयं तं ३ पदार्थ प्रति प्रतीत्य आश्रित्य धर्मभानं हखादिधर्मज्ञानं भवतीति शेषः ॥ १३ ॥ पुत्रत्व-पौत्रत्व-पितृत्व-धर्मा यद्यप्यपेक्षावशगास्तथापि । सन्तो हि सत्त्वेन भवन्ति पुंस स्तथा च भावाः स्वत एव सिद्धाः ॥ १४॥ ९ एकस्मिन्पुरुषे खपित्रपेक्षया पुत्रत्वं, खपितामहापेक्षया पौत्रत्वं, खसुताऽपेक्षया तु पितृत्वं, इत्थं तु पौत्रत्व-पुत्रत्व-पितृत्वधर्मा अपि यद्यपि अपेक्षावशगाः सन्ति, तथापि हीति निश्चितं पुंसः पुरुषस्य १२ सत्त्वेन सद्भावेन एते धर्माः सन्तो विद्यमाना भवन्ति । तदभावे तु कथं स्युरिति भावः । तथा च सति सर्वे भावाः पदार्थाः खत एव सिद्धा ज्ञेया इति शेषः ॥ १४ ॥ १५ सम्बन्धमासाद्य कमप्यपेक्षा प्रयान्ति काश्चित्परभावतश्चेत् । तथापि कार्यादिसमस्तभावाः स्वस्यैव सत्तामधिकृत्य सन्तः ॥१५॥ चेद्यदि कार्यादिसमस्तभावाः कार्यादयः सर्वे पदार्थाः कमपि सम्बन्धमासाद्य प्राप्य परभावतः परपदार्थतः कांचिदपेक्षां प्रयान्ति २१ प्रामुवन्ति, तथापि ते खस्यैव सत्तां अधिकृत्य आश्रित्य सन्तो विद्यमाना ज्ञेयाः ॥ १५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy