________________
श्रीगौतमीयकाव्यं
वस्तु खसत्तयाऽपि प्रतिभासं एति प्राप्नोति खसत्तयाऽपि प्रतिभासते, न तु पराऽपेक्षयैवेत्यर्थः । अयमत्र भावार्थः-न खल्वापेक्षिकमेव ३ वस्तूनां सत्त्वं किं तु खविषयज्ञानगमनाद्यर्थक्रियाकारित्वमपि । ततश्च ह्रख-दीर्घो-भयानि आत्मविषयं चेद् ज्ञानं जनयन्ति तदा सन्त्येव तानि, कथं तेषामसिद्धिः ? यदप्युक्तं-'मध्यमाङ्गुलिमपेक्ष्य ६प्रदेशिन्यां खत्वमसदेवोच्यते' इत्यादि तदप्ययुक्तं, यतो यदि मध्यमामपेक्ष्य प्रदेशिन्यां खतः सर्वथाऽसत्यामपि हखत्वं भवेत्तदा विशे. षाभावात्खरविषाणेऽपि तद्भवेत्, अतिदीर्धेषु इन्द्रयष्ट्यादिष्वपि च ९ तत्स्यात् । तस्मात्स्वतः सत्यामेव प्रदेशिन्यां वस्तुनोऽनन्तधर्मात्मकत्वात्तत्तत्सहकार(रि)सन्निधौ तत्तद्रपाभिव्यक्तेस्तत्तज्ज्ञानमुत्पद्यते न पुनरसत्यामेव, तस्यामपेक्षामात्रत एव ह्वज्ञानमुपजायते । एवं दीर्घो१२ भयादिष्वपि वाच्यं, तस्मात्खतः परत उभयतश्च भावानां सिद्धिरस्त्येव व्यवहारतः, निश्चयतस्तु खतः सिद्धा एव सर्वेऽपि भावाः।
तथा हि-इह किञ्चित् खत एव सिध्यति, यथा कर्तृनिरपेक्षः तत्का३५ रणद्रव्यसङ्घातविशिष्टपरिणामरूपो मेघः । किञ्चित्तु परतो यथा
कुलालकर्तृको घटः। किञ्चिदुभयतो यथा--मातापितृभ्यां स्वकृतकर्मतश्च पुरुषः । किञ्चिन्नित्यसिद्धमेव यथा-आकाशम् , एतच्च व्यव१८ हारनयाऽपेक्षया द्रष्टव्यम् । निश्चयतस्तु बाह्यं निमित्तमात्रमेवाऽऽश्रित्य सर्व वस्तु खत एव सिध्यति खरविषाणादिरूपोऽभावस्तु बाह्यनिमित्त
सद्भावेऽपि कदाचिदपि न सिध्यतीति ॥ १२॥ २९ उक्तमेवार्थ पुनर्दृढयति__ हस्खत्व-दीर्घत्व-समत्व-धर्मा यद्यप्यपेक्षावशगा भवन्ति । २३ तथापि वस्त्वेतदिति खसत्तामालम्बमानं प्रति धर्मभानम् ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org