________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
२१५
योऽखमः स खमः इत्यादि । तस्मात्सन्ति एवं सर्वे भावा न पुनः शून्यतेति ॥ १० ॥
: पुनर्भूतसद्भावं प्रकारान्तरेण समर्थयन्नाह -
सद्वस्तुनि स्यादथ संशयोऽपि यत्स्थाणुपुंसोः स्फुट एष दृश्यः । तद्भूतसन्देहविशेष एव प्रस्फोरयत्यत्र तदर्थसत्ताम् ॥ ११ ॥
अथ संशयोऽपि सद्वस्तुनि विद्यमाने एव वस्तुनि स्यात्, नावि - ६ द्यमाने इत्यर्थः । कथमित्याह - यद्यस्मात्कारणात् स्थाणु-पुंसोः शङ्कुपुरुषयोरेष संशयः स्फुटः प्रकटो दृश्यो दर्शनीयोऽस्ति, तत्तस्मात्कार - णात् भूतानां यः सन्देहविशेषः स एव अत्र लोके तदर्थसत्तां ९ भूतपदार्थसद्भावं प्रस्फोटयति प्रकाशयति । प्रपूर्वात् 'स्फुर स्फुरणे' अस्माद्धेतुमण्णिजन्ताल्लट् । अत्रायं भावः - असति भूतकदम्बके संशयः खकुसुम-खर विषाणयोरिव न युक्तः, अपि त्वभावनिश्चय एव १२ स्यात्, सत्स्वेवंभूतेषु स्थाणु - पुरुषादिष्विव संशयो युक्तः । यदि पुनरसत्यपि वस्तुनि सन्देहः स्यात् तदाऽविशेषेण खरविषाणादिष्वपि स्यात्, न च सोऽस्ति तस्मात्सन्त्येव भूतानीति ॥ ११ ॥
अथ यदुक्तं प्राग् न खतो भावानां सिद्धिरित्यादि तत्प्रतिविधातुमाह
१८
अपेक्ष्य भावं परमर्थसत्तां त्वं मन्यसे तन्न सहेत युक्तिम् । ह्रस्वं च दीर्घं च समं च वस्तु स्वसत्तयाऽपि प्रतिभास मेति ॥ १२ ॥ हे व्यक्त ! त्वं परमन्यं भावं पदार्थमपेक्ष्य अर्थसत्तां पदार्थसद्भावं मन्यसे न खतः, परं तत् त्वन्मतं युक्तिं न सहेत युक्तिक्षमं नास्ती - २१ त्यर्थः । कथमित्याह — ह्रस्वं चेत्यादि । चकारः समुच्चये, समशब्देनाऽत्र तदुभयं गृह्यते । ततश्चायमर्थः – ह्रखं दीर्घं तदुभयं च २३
-
--
१५
Jain Education International For Private & Personal Use Only www.jainelibrary.org