________________
२१४
श्रीगौतमीयकाव्यं
यद्यपि प्रस्तुतं प्रस्तावापन्नं इन्द्रजालं असत् अविद्यमानमेव, तथापि तस्येन्द्रजालस्येमे तदीया इन्द्रजाले दृश्यमाना भावाः पदार्था ३ असन्तोऽसद्भूता, न सन्तीति शेषः, तेषामप्यन्यत्र विद्यमानत्वादिति
भावः । तथा तेन प्रकारेण जगदेव जन्तूनां बन्धनहेतुत्वाज्जालं तस्य विशालो विस्तीर्णो यो गर्भो मध्यं, तस्मिन् भूतानि सन्त्येव । अत्रार्थे ६ काऽपि शङ्का न कर्त्तव्येति शेषः ॥ ९॥
पुनः सर्वशून्यतायामिष्यमाणायां स्वप्नाऽखमादिव्यवहाराभावप्रसङ्ग एवेति दर्शयन्नाह९खमेन्द्रजाले अपि भावरूपे कुतोऽन्यथा स्यात्तदभावयुक्तिः । अस्खम इत्येवमनिन्द्रजालमिति प्रतीतिर्यत ऊहनीया ॥ १० ॥
खामश्च इन्द्रजालं च खगेन्द्रजाले ते अपि भावरूपे विद्येते, १२ नाऽभावरूपे इत्यर्थः । अन्यथा खानादेर्भावत्वाऽभावे तयोः स्वप्नेन्द्र
जालयोरभावयुक्तिर्भवदुक्ताऽभावोपपत्तिः कुतः स्यात् ?, कुतोऽपि न
स्यादित्यर्थः । यतो यस्मात्कारणान्न खमोऽस्खन इत्येव तथा न इन्द्र१५जालमनिन्द्रजालमित्येवं या प्रतीतिः सा ऊहनीया विचार्या । इद
मत्र तात्पर्यम्-सर्वशून्यत्वेऽभ्युपगम्यमाने खप्नोऽयमखानो वा ?,
तथा इन्द्रजालमिदमनिन्द्रजालं वेत्यादिको विशेषः किं कृतः स्यात् । १८ खनादीनां विशेषनिबन्धनाभावात्समतैव कस्मान्न भवति ? यादृशः
खामोऽस्वप्नोऽपि तादृश एव यादृशश्चाऽखप्नः खप्नोऽपि तादृश एवे. २० त्यादि । अथवा विपर्ययः कुतो न भवति ? यः खप्नः सोऽखमः
.'अन्यथाऽस्य तदभावयुक्तिः' इति काशीमुद्रितपाठोऽस्वारस्याच्छन्दोभङ्ग दोषदुष्टखाचामनोरमः। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org