________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २१३ अथेत्थं पूर्वपक्षमुक्त्वा भगवान् प्रतिविधानमाह- . व्यक्तोत्तरं तत्र गृहाण पक्षं स्वमेन्द्रजालोपमितं जगद्यत् । आख्यातमेतत्तु विरागतायै मोहस्य हान्य तदनित्यतातः॥७॥३
हे व्यक्त ! तत्र तस्मिन्नुक्तेऽर्थे त्वमऽस्माभिरुच्यमानं उत्तरं पक्ष गृहाण उत्तरं शृणु इत्यर्थः । श्रुतौ यदेतत् खमेन्द्रजालोपमितं खप्नेन्द्रजालमायासदृशं जगत् आख्यातं उक्तं, तत्तु विरागतायै जन्तूनां ६ वैराग्योत्पादनार्थमित्यर्थः । तथा मोहस्याऽज्ञानस्य हान्यै त्यागार्थमित्यर्थः । तथाऽनित्यतातो जगतोऽनित्यत्वादित्यर्थः ॥ ७॥ __ अथ भूतादिसद्धावं युक्त्या प्रतिपादयन्नाहयचिन्तितं दृष्टमथाऽनुभूतं श्रुतं च तत् स्वमगतं सदेव ।। प्रबोधिनश्चेत्तदसत्तथाऽपि स्थिता परत्रैव तदर्थसत्ता ॥८॥ ___ यद्वस्तु चिन्तितं अन्यदा हृदि पर्यालोचितं विभव-वल्लभादि, तथा १२ दृष्टं करि-तुरगादिकं, अथ-अथवाऽनुभूतं स्नान-भोजन-विलेपनादि, च पुनः श्रुतं स्वर्ग-नरकादिकं, तत्सर्वं वस्तु सदेव विद्यमानमेव खग्ने गतं प्राप्तं भवति, नाऽविद्यमानं किञ्चिदित्यर्थः । चेद्यदि प्रबोधो १५ जागरणमस्त्यस्येति प्रबोधी तस्य जाग्रतः सतस्तत्सर्वं स्वप्नगतं वस्तु असत् प्रायोऽविद्यमानमेव तथापि अपरत्राऽन्यत्र प्रदेशे तेषां स्वप्नदृष्टानामर्थानां वस्तूनां सत्ता विद्यमानता तदर्थसत्ता स्थितैव । अतः १० खप्नदृष्टार्थानामप्यभावाऽभावात् कथं शून्यं जगदिति भावः ॥ ८॥ ___ एवं खप्नमाश्रित्य युक्तिमुक्त्वा इन्द्रजालमाश्रित्याहयद्यप्यसत्प्रस्तुतमिन्द्रजालं तथाऽप्यसन्तो न तदीयभावाः। तथा जगजालविशालगर्भे भूतानि सन्त्येव नकाऽपि शङ्का ॥९॥२२ १ 'यचर्चितं' इति काशीमुद्रितपाठश्चिन्त्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org