________________
२१२
श्रीगौतमीयकाव्यं
सूक्ष्मत्वतो वस्तुनि नाभिगम्यावाद्यन्तभागौ परमाणुरूपौ ।
लभ्यं कथं वा तदधीनमध्यं ?
तस्मात्तवाssस्था ननु शून्यतायाम् ॥ ६ ॥
स्तः,
-
अत्र परमाणुशब्देन परमाणुप्रतरो लक्ष्यते । ततश्चायमर्थः— ६ परमाणुरूपौ परमाणु-प्रतरखरूपौ वस्तुनि स्तम्भादिपदार्थे आद्यन्तभागौ सर्वारातीयभागपरभागौ सूक्ष्मत्वतः सूक्ष्मत्वेन नाभिगम्यौ नोपलभ्यौ वा पुनस्तयोराद्यन्तभागयोरधीनं तदधीनं तदन्तरितमित्यर्थः, ९ ईदृशं यन्मध्यं वस्तुनो मध्यभागस्तत्कथं लभ्यम् ? अदर्शनादेव तन्नोपलभ्यते इत्यर्थः । तस्मात्कारणान्ननु निश्चितं तव शून्यतायामास्थाsपेक्षा आदरोऽस्तीत्यर्थः । अत्रायं भावः — इह यत्तावददृश्यं १२ तदसत् एव, अनुपलम्भात्, खरविषाणवत्, इति निवृत्ता तद्वार्त्ता । दृश्यस्यापि च स्तम्भ-कुम्भ-कुड्यादेः पर-मध्यभागयोरसत्त्वमेव, अर्वाग्भागान्तरितत्वेन तयोरप्यदर्शनात्, अर्वाग्भागस्यापि च सावयवत्वात्पुनरन्यः १५ खल्वाराद्भागस्तस्याप्यन्य इत्येवं तावद्यावत्सर्वारातीयभागस्य परमाणुप्रतरमात्रत्वेनाऽतिसौक्ष्म्यात्पूर्वेषां चाराद्भागानामन्यस्यान्येनान्तरित्वेनानुपलब्धिः । ततश्चोतन्यायेन परभाग- सर्वारातीयभागलक्षणोभय१८ भागानुपलम्भात् सर्वस्यापि वस्तुजातस्यानुपलब्धेः शून्यं जगदिति । तदेवमुक्तयुक्त्या सर्वस्यापि भूतादेरभावः प्राप्नोति । श्रूयते च श्रुतौ २० भूतादिसद्भावोऽपीति संशयः ॥ ६ ॥
१ 'नाभिगम्यौ वाऽऽद्यन्तभागौ ' इति काशीमुद्रितपाठश्चिन्त्यः । २ आराद् भवम् आरातीयम् - समीपस्थम् इत्यर्थः । ३ विशेषा० बृहद्वृत्तौ ( पृ० ७२५ गा० १६९६ ) ।
Jain Education International
For Private & Personal Use Only www.jainelibrary.org