________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २११ कारणादिभावस्याऽऽपेक्षिकत्वात् , हखदीर्घव्यपदेशवत् । तथा हियत् किमपि भावजातमस्ति तेन सर्वेणापि कार्येणापि भवितव्यं, कारणेन वा, तत्र कार्य कारणेन क्रियत इति कारणायत्त एव तस्य ३ कार्यव्यपदेशः, न तु (कार्यस्य) कार्यत्वं खतःसिद्धं किमप्यस्ति । एवं कारणमपि कार्य करोतीति कार्यायत्त एव तस्य कारणत्वव्यपदेशः, न तु तस्य कारणत्वं स्वतःसिद्धं किंचिदस्ति । तदेवं ६ कार्यादिभावः खतो न सिध्यति, यच्च खतो न सिद्धं तस्य परतोऽपि सिद्धिर्नास्ति, यथा खरविषाणस्य । ततश्च न खतःकार्यादिभावो नापि परतः, 'स्वपरोभयात्तर्हि तसिद्धिरिति' चेत्,-तदयुक्तं, व्यस्तादु-९ भयस्मात्तत्सिद्धेरभावात्तत्समुदायेऽपि तदऽयोगात् । न हि सिकताकणेषु प्रत्येकमसत्तैलं तत्समुदाये प्रादुर्भवति, अपि च उभयस्मासिद्धिपक्षे इतरेतराश्रयदोषः प्राप्नोति । यावद्धि कार्य न सिध्यति न ताव-१२ कारणसिद्धिरस्ति । यावच्च कारणं न सिध्यति न तावत्कार्य सिद्धिमासादयति, अत इतरेतराश्रयदोषः, तस्मान्नोभयतोऽपि कार्यादिभावसिद्धि प्यन्यतोऽनुभयत इत्यर्थः । स्वपरोभयव्यतिरेकेणाऽन्यस्य १५ वस्तुनोऽसत्त्वेन निर्हेतुकत्वप्रसङ्गात् । एवं ह्रख-दीर्घलक्षणे दृष्टान्तेऽप्यन्वयो भावनीयः । तथा हि-प्रदेशिन्या अङ्गुष्ठमपेक्ष्य दीर्घत्वं प्रतीयते । मध्यमां त्वपेक्ष्य हखत्वं, परमार्थेन त्वियं खतो न हखा, १८ नापि दीर्घा, तदेवं न खतो हखदीर्घत्वयोः सिद्धिः । ततः परतः, उभयतः, अनुभयतश्च तत्सिद्ध्यभावो यथोक्तवद्भावनीयः, तस्मात्कथमपि वस्तुसिद्धेरसम्भवात् शून्यतैव सिध्यतीति ॥५॥ ......२१
पुनः प्रकारान्तरेणापि शून्यतासिध्यर्थं यत्तेनाभिप्रेतं तद्भगवानाऽऽह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org