________________
२१०
श्री गौतमीयकाव्यं
अथ व्यक्तचेतोगतां युक्ति भगवान् व्यक्तीकुर्वन्नाह - तथा कुम्भव्यतिरिक्तकुम्भेऽन्योन्याश्रयाऽपेक्षणमस्ति यस्मात् । ३ सिद्धिः स्वतो वस्तुन एव नास्ति, प्रतीयते तेनं तु शून्यतैव ॥४॥ तथा हि तामेव युक्तिं दर्शयति — कुम्भाद्धाद् व्यतिरिक्ता अकुम्भाः स्तम्भादयः पदार्थास्तेभ्यो व्यतिरिक्तो भिन्नः कुम्भः तत्र, ६ यस्मात्कारणादन्योन्याश्रयस्य इतरेतराश्रयस्य अपेक्षणमपेक्षाऽस्ति । न हि अकुम्भव्यतिरेकेण चाऽकुम्भ इति व्यपदेश इति स्पष्टमेवाडनयोरन्योन्याश्रयत्वमित्यर्थः । तस्मात् स्वतोऽन्याऽनपेक्षया वस्तुनः ९ कस्यापि पदार्थस्य सिद्धिर्निष्पत्तिर्नास्त्येव । तु इति विशेषे, तेन हेतुना शून्यतैव प्रतीयते ज्ञायते ॥ ४ ॥
यथा खतो न सिद्धिस्तथा परतोऽपि नेत्याह
१२ यः कश्चिदर्थः स च कार्य्यरूपः स्यात्कारणं वा व्यवहारतोऽत्र । परस्परापेक्षितयाऽनयोर्यत्स्वेतो न सिद्धिः परतोऽपि नैवम् ॥ ५ ॥ अत्राऽस्मिन् लोके यः कश्चिदर्थः स च व्यवहारतः कार्यं रूपं १५ खरूपं यस्य स कार्यरूपः स्यात् । कारणं वा कारणरूपो वा स्यात् । अनयोः कार्यकारणयोः परस्परापेक्षितयाऽन्योन्यापेक्षित्वेन यद्यस्मा - त्कारणात् खतो न सिद्धिः एवममुनैव प्रकारेण परतोऽपि न सिद्धि:, १८ अस्तीति शेषः । अत्र विशेषावश्यकवृत्त्यनुसारेण काव्यद्वयस्य भावना त्वियम् — “हे व्यक्त ! भवतोऽयमभिप्रायो यथा किल न खतो न २० परतो न चोभयतो नाऽप्यन्यतो भावानां सिद्धिः सम्भाव्यते, कार्य
१ 'तेन नु शून्यतैव' इति काशीमुद्रितपुस्तके पाठः, स च टीकाकृतां न सम्मत इति प्रतिभाति । २ 'खतोऽपि सिद्धिः परतोऽपि नैवम्' इति काशीमुद्रितपाठः ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org