SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २०९ विरुद्धा अपेक्षा व्यपेक्षा विरुद्धवेदपदार्थपर्यालोचना तामाश्रित्य, ननु इत्यवधारणे, सर्व लोकं शून्यं वेत्सि जानासि । अयं भावः-पृथिव्यप्तेजोवाय्वाकाशलक्षणानि पञ्चभूतानि तानि च किं सन्ति न वेति त्वं ३ मन्यसे, संशयश्च तवाऽयं विरुद्धवेदपदश्रवणनिबन्धनो वर्चते । तानि चामूनि वेदपदानि-'खप्नोपमं वै सकलम्' 'इत्येष ब्रह्मविधिरञ्जसा विज्ञेय' इत्यादि, 'तथा पृथिवी देवता आपो देवता' इत्यादि । एतेषां ६ चायमर्थः तव प्रतिभासते, स्वप्नोपमं खमसदृशं वै-निपातोऽवधारणे, सकलमशेषं जगदित्येष ब्रह्मविधिः परमार्थप्रकारः अञ्जसा प्रगुणेन न्यायेन विज्ञेयो ज्ञातव्य इति, तदेवमादीनि वेदपदानि किल भूत-९ निवपराणि तथा पृथिवी देवता इत्यादीनि तु तत्सत्ताप्रतिपादकानि, अतस्तव संशयः । भूतानां स्वप्मसादृश्यादिभावना त्वेवं, यथा हि-खग्ने किल कश्चि-१२ निःखोऽपि निजगृहाङ्गणे गजघटा-तुरगगण-मणि-कनकराश्यादिकमभूतमपि पश्यति । “मायायां चेन्द्रजालक्रियारूपायामविद्यमानमपि कनक-मणि-मौक्तिक-रजतभाजना-ऽऽराम-पुष्प-फलादिकं दृश्यते तथै- १५ तान्यपि भूतान्येवंविधान्येव, यतो विचार्यमाणान्येतानि सर्वथैव न काश्चिद्युक्तिं सहन्ते। भूतेषु संशये पुनर्जीवादिषु का वार्ता ? तेषां भूतविकाराधिष्ठानत्वात् , तस्मात्सर्वस्यापि भूतजीवादिवस्तुनस्त्वदभि-१८ प्रायेणाऽभावात् सर्वशून्यताशङ्की त्वं निरवशेषमपि लोकं खप्नेन्द्रजालमायोपमं मन्यसे इति" । परमेतेषां वेदपदानामर्थ, युक्तिहृदयं च त्वं न वेत्सि तेन संशयं कुरुषे । एषामर्थस्तु अग्रे वक्ष्यते ॥ ३ ॥ २१ १ विशेषा० बृहद्वृत्ति (पृ. ७२२ गा० १६९१)। १४ गौ० का० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy