________________
२०८
श्रीगौतमीयकाव्यं
प्रतिष्ठेति । 'प्रतिष्ठा मर्यादादेवादिस्थापनयोरपी'ति मन्त्रः (१)। अस्मिन् सर्गे इन्द्रवज्रोपजातिछन्दसी, तल्लक्षणे च प्रागुक्ते एव ॥१॥
समाजगाम खपरिच्छदेन
छद्म व्यतीत्याऽऽशु जिनोपकण्ठम् । व्यक्ताऽभ्युपेहीति जिनोऽप्यवादी___ द्विमुञ्च भूतेषु च नास्तिभावम् ॥२॥ अत्र 'स' इति कर्तृपदमध्याहार्यम् । स व्यक्तनामा उपाध्यायः छद्म शाठ्यं व्यतीत्य विलय परित्यज्येति यावत् । आशु शीघ्र ९खपरिच्छदेन खच्छात्रपरिवारेण सह जिनस्य श्रीवीरपरमेश्वरस्य
उपकण्ठं समीपं समाजगाम संप्राप्तः । तदा जिनो वीरप्रभुरपि हे व्यक्त ! त्वमभ्युपेहि अभ्यागच्छ, च पुनर्भूतेषु पृथिव्यादिषु नास्ति१२ भावं नास्तित्वं विमुञ्च परित्यज, 'भूतेषु नास्तित्वबुद्धिं मा धा' इत्यर्थ, इत्येवमवादीत् वदति स्म ॥२॥
अथ यथा एतस्य संशयस्तथा दर्शयन्नाह१५ वमोपमं वै जगदिन्द्रजालो
पमं विचार्येति वचो विचारम् । भूतानि लुम्पस्यथवा व्यपेक्षा
माश्रित्य सर्वं ननु वेत्सि शून्यम् ॥३॥ हे व्यक्त ! वै इत्यवधारणे, इदं जगत् खप्नोपमं अथवा इन्द्रजालो. पमं वर्तते इत्येवंरूपं विचारोऽस्त्यस्मिन्निति विचारं 'अर्शआदिभ्योऽच्'
(५।२।१२७) विचारगभितमित्यर्थः । वचो वेदवचनं विचार्य २२ वहृदये पर्यालोच्य त्वं भूतानि लुम्पसि नास्तित्वेन विजानासि अथवा
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org