________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २०७
ज्ञात्वा सपदि शीघ्रं सह परिबर्हेणेति सपरिबर्हः सपरिकरः त्रीणि रत्नानि ज्ञान-दर्शन- चारित्राणि गृह्णन् भगवत्पार्श्वे स्वीकुर्वन् शिवपदस्य मुक्तिस्थानस्य यः पथो मार्गस्तत्र पान्थः पथिकोऽभूत् । ३ पथेति । पथशब्दोऽदन्तोऽप्यस्ति 'वाटः पथश्च मार्गश्च' इति त्रिकाण्डशेषकोशे उक्तत्वात् । पान्थ इति । पन्थानं नित्यं गच्छतीति विग्रहे 'पन्थो ण नित्यम्' ( ५/१/७६ ) इति णप्रत्ययः, पन्थ इत्या - ६ देशश्च । इदं मालिनीछन्दः, एतल्लक्षणं तु प्रागुक्तमेवेति ॥ ४७ ॥ इति गौतमलघुबन्धुद्वयदीक्षाग्रहणवर्णनो नामाऽष्टमः सर्गः ॥ ८ ॥
इति स्पष्टम् ।
इति श्रीगौतमीयप्रकाशाख्यायां श्रीगौतमीयमहाकाव्यव्याख्यायां
९
अष्टमः सर्गः ॥ ८ ॥
नवमः सर्गः ।
व्यक्ताभिधानोऽथ विशारदानां सदस्युपाध्यायपदप्रतिष्ठः । भ्रात्रयं प्रव्रजितं निशम्य श्रीवीरनाथं प्रणिनंसुरासीत् ॥ १ ॥ १५ विशुद्धविज्ञानकरं प्रसार्य व्यक्तादिविप्रा भवसिन्धुमध्यात् । समुद्धृता येन जिनेश्वराय नमोऽस्तु तस्मै त्रिशलाSSत्मजाय ॥१॥
अथानन्तरं विशारदानां पण्डितानां सदसि सभायां उपाध्याय - १८ पदस्य प्रतिष्ठा स्थापनं यस्य स तथोक्त एवंविधो व्यक्ताभिधानो व्यक्तनामा पण्डितः, भ्रातृत्रयमिन्द्रभूत्यादिसहोदरत्रितयं प्रत्रजितं श्रीवीरपार्श्वे दीक्षितं निशम्य श्रुत्वा श्रीवीरनाथं प्रणन्तुमिच्छुः प्रणिनंसुः आसीत् अभवत् । स्वयमपि भगवन्तं नमस्कर्तुमैच्छदित्यर्थः । २२
"
Jain Education International For Private & Personal Use Only
१२
www.jainelibrary.org