________________
२०६
श्रीगौतमीयकाव्यं
स्वभावत्वात् । अनयोः संयोगसम्बन्धाभ्युपगमे तु सिद्ध एव देहाद्भिन्नो
जीव इति भावः ॥ ४५ ॥
अथोपसंहरन्नाह - अस्ति स प्रकट एव तदात्मा भेदवांश्च मनसोऽप्युपयोगी । व्यापृतिं जगति यस्य विमुच्य ज्ञानकार्यमखिलं निहतं स्यात् ॥ ४६ ॥
तत् तस्मात्कारणात् स आत्मा प्रकट एव शरीराद्भेदोऽस्यास्तीति ९ भेदवान् च पुनर्मनसः सङ्कल्पहेतोश्चेतसोऽपि उपयोगोऽस्यास्तीति उपयोगी अस्ति विद्यते । यस्याऽऽत्मनो व्यापृतिं व्यापारं विमुच्य त्यक्त्वा जगति लोकेऽखिलं समस्तं ज्ञानकार्यं ज्ञानविषयीभूतं कार्यं १२ निहतं स्यात् निहन्येत । ततश्च स आत्मा शरीराद्भिन्न एव प्रतिपत्तव्य इति तात्पर्यम् ॥ ४६ ॥
३
एवं भगवता संशये छिन्ने सति वायुभूतिः किं कृतवानित्याहइति हृदि कुविकल्प व्याधिबाधा वियुक्तो भगवति जिननाथे सर्ववित्त्वं प्रतीत्य । सपदि सपरिबर्हस्त्रीणि रत्नानि गृह्णन् शिवपदपथपान्थोऽभूद्विजो वायुभूतिः ॥ ४७ ॥ इत्यनेन प्रकारेण हृदि हृदये यः कुविकल्पः कुत्सितविमर्शः स एव व्याधी रोगस्तस्य बाधया पीडया वियुक्तो विप्रमुक्तो वायुभूति - २१ द्विजो भगवति जिननाथे श्रीवीरखामिनि सर्ववित्त्वं सर्वज्ञत्वं प्रतीत्य
१ भिन्नयोरेव द्रव्ययोः संयोगः इति न्यायनयेन स्वीकृतत्वात् ।
१५
૩૮
Jain Education International For Private & Personal Use Only www.jainelibrary.org