________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २०५ तच्छरीरादन्यदेव, तदत्ययेऽपि इहत्यसुखकारणत्वात् , गुणश्चायम् , स च गुणिनमन्तरेण न सम्भवति, असौ यस्तस्याश्रयभूतो गुणी स देहाद्भिन्नः सुखानुभूतिमयो जीव इति सिद्धम् । एवं दुःख-भय-राग-द्वेष-३ शोकादयोऽपि जानीयाः । मतेति । 'मतिबुद्धि-' (३।२।१८८) इत्यादिसूत्रेण वर्तमाने क्तः । मतिरिह इच्छा, बुद्धेः पृथगुपादानात् । तवेत्यत्र 'क्तस्य च वर्तमाने' (२॥३॥६७) इति षष्ठी । मता इष्टा, ६ त्वया इष्यमाणेत्यर्थः ॥ ४४ ॥
अथैवमनुमानेन शरीराद्भिन्नं जीवं संसाध्य पुनः पराभिप्राय प्रादुष्कृत्य निराकुर्वन्नाह
चेत्स्वभावमवलम्ब्य न मुञ्चे
राग्रह, वद तदा स च कीदृक् ?, । चिन्मयोऽयमिति चेत्, न जडेना
ऽन्वेति भूतनिवहेन चिदात्मा ॥४५॥ हे वायुभूते! चेद्यदि इहत्यसुखाद्यनुभवस्य कारणं खभावमवलम्ब्य आश्रित्य शरीरादभिन्न एवात्मेति आग्रहं हठं त्वं न मुञ्चेर्न १५ त्यजेः, तदा वद ब्रूहि स चात्मा कीदृक् ? कीदृशोऽस्तीत्यर्थः । अथाऽयमात्मा चिन्मयो ज्ञानमय इति चेद्बषे तर्हि चिदात्मा चिन्मयो जीवो जडेन भूतनिवहेन भूतसमुदायेन न अन्वेति न समवाय-१८ सम्बन्धमुपगच्छति । अवयवावयविव्यतिरिक्तयोर्द्रव्ययोः संयोगसम्बन्धस्यैवाभ्युपगमात् , अवयवावयविभावस्त्वनयोन संजाघटीति भिन्न-२०
१२
१ देहाऽऽत्मनोः। २ सेयम् भिन्नखभावता-यत् आत्मनो ज्ञानमयत्त्वंचेतनरूपता, शरीरस्य च जडखरूपता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org