________________
२०४
श्रीगौतमीयकाव्यं
यच्च यत्पुनः शिशुर्बाल आदौ प्रथमत एव पयो मातुः स्तनोद्भवं दुग्धं धित्सति धातुमिच्छति पानं कर्तु वाञ्छतीत्यर्थः । तत् कापि ३ कस्मिंश्चिद्भवान्तरे प्रथमवृत्तितः प्रथमवृत्तेरेव प्राक्तनजन्माभ्यासादेवेत्यर्थः । ततस्तस्मात्कारणात् हे वायुभूते ! त्वं एनं देहाच्छरीराद् भिन्नं अत एव प्रतिभवं अपरे अपरे देहा यस्य सोऽपराऽपरदेहस्तं ६ जीवं चेतनमवगच्छ जानीहि । धित्सतीति । 'धेट् पाने' सन्नन्तः 'सनि मीमा-' (७४।५४ ) इत्यादिना इसादेशः । इदमत्र तात्पर्यम्--योऽयमाद्यः स्तनाभिलाषो बालस्य, अयमन्याभिलाष९पूर्वकः, अनुभवात्मकत्वादभिलाषत्वात् वा, सांप्रताभिलाषवदिति । इह योऽभिलाषः सोऽन्याभिलाषपूर्वको दृष्टः, यथा सांप्रताभिलाषः यदभिलाषपूर्वकश्चायमाद्यः स्तनाभिलाषः स शरीरादन्य एव, पूर्व१२ शरीरपरित्यागेऽपि इहत्याऽभिलाषकारणत्वात् । ज्ञानगुणश्चाभिलाषो न गुणिनमन्तरेण संभवत्यतो यस्तस्याश्रयभूतो गुणी स शरीरातिरिक्त
आत्मेति ॥ ४३ ॥ १५ अनुमानान्तरमाहएवमेव सुख-दुःख-भयादेर्वेदकः स च परम्परयाऽर्भः।
चेतना तव मता तनुजा चेदादितः कथमसौ व्यवहारः॥४४॥ १८ च पुनः सोऽर्भो बालः एवमेव उक्तप्रकारेणैव परंपरया जन्मान्तर
संसक्त्या सुख-दुःख-भयादेर्वेदको विज्ञाता बोध्य इति शेषः । चेद्यदि
तनोर्जाता तनुजा शरीरजा एव चेतना तव मताऽभिप्रेता तर्हि आदितः २१ प्रथमत एव असौ सुख-दुःख-भयादिसंवेदनलक्षणो व्यवहारः कथं
स्यादिति शेषः । अयं भावः-अन्यसुखपूर्वकमिदमायं बालसुखं, २३ अनुभवात्मकत्वात् , सांप्रतसुखवत्, यत्सुखपूर्वकं चेदमाचं सुखं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org