________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २०३ पञ्च गवाक्षा यस्मिंस्तत् पञ्चगवाक्षं तस्मिन् कचन कस्मिंश्चिन्मन्दिरे गृहे भिन्नभिन्नकृतीनां रूपदर्शन-रसास्वादन-शब्दश्रवणादिभिन्नभिन्नक्रियाणां कारकं कर्तारं एकं गृहनाथं गृहखामिनं नरं चेद्यदि त्वं प्रपश्यसि तर्हि एवममुना प्रकारेण तनौ शरीरे य आत्मा जीवस्तत्रापि पश्य विलोकय, 'विवक्षातः कारकविभक्तयो भवन्तीति वचनात् तनावात्मानमपि पश्येत्यर्थः । इह काव्यद्वयसूचिताऽनुमानखरूपं ६ चेदम्-"भूतेन्द्रियेभ्यो भिन्नरूपस्य पदार्थस्य कस्याऽपि धर्मश्चेतनेति प्रतिज्ञा, भूतेन्द्रियोपलब्धार्थाऽनुस्मरणादिति हेतुः, यथा पञ्चभिर्गवाक्षरुपलब्धान् अर्थान् अनुस्मरतस्तदतिरिक्तस्य कस्यापि देवदत्तादेः९ पुरुषस्य चेतनेति दृष्टान्तः । अयमत्र तात्पर्यार्थः-इह य एको यैरनेकैरुपलब्धानर्थानऽनुस्मरति स तेभ्यो भेदवान् दृष्टः, यथा पञ्चभिर्गवाक्षरुपलब्धानाननुस्मरन् तेभ्यो देवदत्तः, यश्च यस्माद्भूतेन्द्रिया- १२ त्मकसमुदायाद्भिन्नो न भवति किं तर्हि ? अनन्यः, नायमेकोऽनेकोपलब्धानामर्थानामनुस्मर्त्ता, यथा शब्दादिग्राहकमनोविज्ञानविशेषः," इत्यादि विशेषावश्यकवृत्तौ (पृ० ७०९ गा० १६५७ ) ॥४२॥ १५
अथापरमपि भूतव्यतिरिक्ताऽऽत्मसाधकमनुमानमाहयच्च धित्सति पयः शिशुरादौ कापि तत्प्रथमवृत्तित एव । जीवमेनमवगच्छ ततस्त्वं देहभिन्नमपराऽपरदेहम् ॥ ४३ ॥ १८
१ गवाक्षेभ्यः। २ व्याप्तिरियं-यदुत ‘यो यस्मात् भूतेन्द्रियात्मकसमुदायाद् अभिन्नः । स एक एव न अनेकोपलब्धानामर्थानां अनुस्मा, अनेकै तेन्द्रियैरुपलब्धानां पदार्थानां एक एव अनुस्मर्ता स भवति यो तेभ्यो भूतेन्द्रियेभ्यो भिन्नो वर्तते, तस्मान्निगम एष-आत्मा तेभ्यो भूतेन्द्रियेभ्यो भिन्नो, यतः तस्याऽऽत्मनः तैरुपलब्धानामर्थानां एकस्यैव अनुस्मर्तृवात्' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org