________________
२०२
श्रीगौतमीयकाव्यं
... तत्र मृतदेहे विशिष्टयोः पवनाऽनलयोर्वाय्वम्योर्योगः सम्बन्धो
नास्ति इति चेदाशङ्कसे तर्हि नु इति प्रश्ने, तत्र तौ विशिष्टौ कुतो ३न ?, यदि त्वं ब्रूषे कुतोऽपि कारणात्तत्र तो विशिष्टौ न स्तः तत्तर्हि देहवर्त्तिनं शरीरस्थं जीवं चेतनमेव किं न उपैषि प्राप्नोषि?, कथं नाङ्गीकरोषीत्यर्थः । किं नामाऽऽत्मसत्त्वं विहायाऽन्यत्तद्वैशिष्ट्यं, ननु संज्ञा ६न्तरेणात्मसत्त्वमेव त्वयाऽपि प्रतिपादितं स्यादिति भावः ॥ ४० ॥
अथ भूतसमुदायातिरिक्तात्मसाधकानुमानसद्भावान्न भूतधर्मश्चैतन्यमिति ज्ञापयितुं तदात्मसाधकमनुमानमाह९ भौतिकेन्द्रियविभावितमर्थं कः स्मरेद्यदि भवेन हि जीवः ।
किं गवाक्षविवरैरनुभूतं संस्मरेद्गृहमथो पुरुषो वा ? ॥४१॥ __ हे वायुभूते ! देहाद्भिन्नो देहमध्यस्थो यदि जीव आत्मा न हि १२ भवेत् तर्हि भूतेषु भवानि भौतिकानि यानि इन्द्रियाणि चक्षुरादीनि
तैः करणभूतैर्विभावितं प्रकाशितं साक्षादनुभूतमिति यावत् । अर्थ
घटादिकं कः स्मरेत् ? न कोऽपीत्यर्थः । अत्र दृष्टान्तमाह-यथा १५ गवाक्षविवरैर्गवाक्षच्छिद्रैरनुभूतमर्थ किं गृहमालयः संस्मरेत् ? अथो
वाऽथवा पुरुषस्तन्मध्यस्थो मनुष्यः संस्मरेत् ?, एतावता तत्र पुरुष एव
स्मरेन्न तु गृहं, तद्वदत्रापि जीव एव संस्मर्त्ता न तु देह इत्यर्थः ॥४१॥ ५४ अमुमेवाऽथं पुनः स्पष्टतरमाह
मन्दिरे वचन पञ्चगवाक्षे भिन्नभिन्न कृतिकारकमेकम् । २० चेत्प्रपश्यसि नरं गृहनाथमेवमात्मनि तनावपि पश्य ॥ ४२ ॥
१ विशिष्टतेजोवायुरूपेण।
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org