________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २०१ भूतेष्वपि पृथगवास्थायामणीयसी चेतना तत्समुदाये तु भूयसीयम् हे वायुभूते ! इति मतिं एवंप्रकारां बुद्धिं मा ग्रहीर्मा अङ्गीकुरु भूतसमुदाये चेतनाया दर्शनात् , इति हेतोरसिद्धत्वात् । तथा हि-यदि३ भूतसमुदायमात्रधर्मश्चेतना भवेत् तदा मृतदेहे मृतशरीरे लेशतोऽपि तां चेतनां त्वं कथं न लभसे प्राप्नोषि ?, भूतसमुदायस्य तत्रापि सत्त्वात् , ततश्च तत्र चेतनाऽनुपलम्भात् न भूतसमुदायमात्रधर्मश्चेतना ६ इति, तथा चासिद्ध एवायं हेतुरिति भावः ॥ ३८ ॥
अथ वायु-वयोस्तदानीं तत्राभावात्तदनुपलम्भ इत्याशङ्कामाविष्कृत्य परिहरन्नाहवायु-वह्निविकले मृतदेहे सा न चास्ति मतिमित्यपि मा धाः। श्रोत्रतो नलिकया नय पूर्ति तत्र तो यदि भवेद्भवदिष्टम् ॥३९॥
वायु-वह्निभ्यां विकले रहिते मृतदेहे सा चेतना न चास्ति न १२ विद्यते इत्यपि मतिं त्वं मा धाः मा धारय । यदि वायु-वह्निसंयोगे भवता इष्टं भवदिष्टं चैतन्यं भवेत् तर्हि तत्र मृतदेहे श्रोत्रतः कर्णादिद्वारतस्तौ वाय्वनी नलिकया सुषिरोपकरणविशेषेण पूर्ति पूरणं नय १५ प्रापय पूरयेत्यर्थः । एतावता नलिकादिप्रयोगतस्तत्र तत्पक्षेऽपि चैतन्यानुपलम्भान्न भूतधर्मश्चैतन्यमिति भावः ॥ ३९ ॥
अथ विशिष्टतेजो-ऽबाद्यभावादनुपलम्भ इत्याशङ्कां प्रादुष्कृत्य १८ प्रतिविधातुमाह
चेद्विशिष्टपवनाऽनलयोगो
नास्ति तत्र, नु कुतो न विशिष्टौ ? । कारणादपि कुतो यदि तत, किं
देहवर्त्तिनमुपैषि न जीवम् ? ॥४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org