________________
श्री गौतमीयकाव्यं
२००
ननु 'प्रत्येकावस्थायां सर्वथानुपलम्भात्' इति अनैकान्तिकोऽयं हेतुः प्रत्येकावस्थायां सर्वथाऽनुपलब्धस्यापि मदस्य मद्याङ्गसमुदाये ३. दर्शनादित्याशङ्कयाह
शक्तिरन्ववयवं मदिराया अस्ति चेत्समुदिता प्रबला स्यात् । चेन्न, तर्ह्यनियतं मदिराङ्गं योज्यते न किमु मादसुखायै १ ॥३७॥ ६ मदिरायाः शक्तिः अन्ववयवं प्रत्यवयवं चेदस्ति तर्हि समुदिता अवयवसमुदायस्था सा प्रबला स्यात्, चेद्यदि एवं न भवेत् तर्हि मादसुखस्य आस्यै मदसुखस्य प्राप्तये अनियतं अनिश्चितं धातकीकुसु९ मादतिरिक्तं यत्किंचित् भस्मगोमयादि मदिराया अङ्गं अवयवभूतं कारणवृन्दं किमु न योज्यते कथं न संयुक्तीक्रियते ? । एतावता धातकीकुसुमादिभिर्नियतैरेव कारणैः संयोजितैर्मदशक्तिरुत्पद्यते न १२ त्वनियतैः, धातकीकुसुमादिषु पुनः पृथक् न सर्वथा मदो नास्ति, अपि तु या च यावती च मदमात्रा पृथगपि तेष्वस्त्येव, ततो नानैकान्तिकता हेतोरिति । मदि (दय ) ति मदः स एव मादः प्रज्ञादित्वादण् ॥ ३७॥ भूतेष्वपि एवं भविष्यतीत्याशङ्कामाविष्कृत्य परिहरन्नाह - मात्रया क्षिति- जलादिषु विष्वक् चेतनाऽस्तु सकला समवाये । मा ग्रही रिति मतिं, मृतदेहे लेशतोऽपि लभसे न कथं ताम् ? ॥३८
१५
मात्रयाऽल्पेन अंशेन क्षिति - जलादिषु पृथिव्यप्तेजोवायुलक्षणभूतेषु विष्वक् (? पृथक् ) पृथक् चेतनाऽस्ति, सा चेतना समवाये भूतसमुदाये सकला समस्ताऽस्तु । अयमर्थः — व्यस्तेष्वपि भूतेषु चैतन्यमस्ति, तत्समुदाये तद्दर्शनात्, मद्याङ्गेषु मदवदिति, यथा मद्यानेषु २२ मदः पृथक् अल्पत्वान्नातिस्पष्टः तत्समुदाये तु प्राकट्यमेति तथा
Jain Education International For Private & Personal Use Only www.jainelibrary.org