________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १९९ कारणात् अनयोर्मध्ये किं सत् ? किमसत् ? इत्थं मनसि संशयं बिभ्राणस्त्वं हे वायुभूते ! अत्राऽस्मिन्नर्थे मुधैव वृथैव स्वास्थ्यं चित्तस्थैर्य न लभसे, एतत्संशयस्य कर्तुमयुक्तत्वादिति भावः ॥ ३५ ॥ ३
अत्र भगवानुत्तरमाहया च शक्तिरसती प्रतिवस्तु सा कुतः समुदये समुदेति ?।. चेदिदं न, सिकतासमवाये किं न तैलजननंजगतीष्टम् ॥३६॥६ ___ या च शक्तिः प्रतिवस्तु असती वस्तु वस्तु प्रति अविद्यमाना, सा समुदये वस्तुसमूहे कुतः समुदेति कथं प्रादुर्भवति ?, न समुदेत्येवेत्यर्थः। चेद्यदि इदं प्रागुक्तं न स्यात्, एतावताऽवयवेष्वविद्य-९ मानाऽपि शक्तिः समुदाये चेत्प्रादुर्भवति तर्हि जगति लोके सिकतासमवाये वालुकासमूहे तैलजननं तैलोत्पत्तिः किं न इष्टम् ?, कथं न इष्यते स्मेत्यर्थः । अयं भावः--न भूतसमुदायमात्रप्रभवा चेतना, १२ भूतप्रत्येकावस्थायां तस्या अंशतोऽपि सर्वथानुपलब्धेः, यथा प्रत्यकं सर्वथाऽनुपलम्भाद्रेणुकणसमुदायप्रभवं तैलं न भवति । एवं चात्र प्रयोगः- "यद्येषु पृथगवस्थायां सर्वथा नोपलभ्यते तत्तेषां समुदायेऽपि १५ न भवति, यथा सिकताकणसमुदाये तैलम् । यत्तु तेषां समुदाये भवति, न तस्य प्र(पृथग्व्यवस्थितेषु तेषु सर्वथाऽनुपलम्भः, यथा एकैकतिलावस्थायां तैलस्य, सर्वथा नोपलभ्यते च भूतेषु प्रत्येकावस्थायां १८
चेतना, तस्मान्नासौ तत्समुदायमात्रप्रभवा, किंतु अर्थापत्तेरेव अन्यकिमपि जीवलक्षणं कारणान्तरं भूतसमुदायातिरिक्तं तत्र सङ्घटितं यत इयं प्रभवतीति प्रतिपत्तव्यमिति ॥ ३६॥
१ विशेषा० बृहद्वृत्त्यनुसारेणाऽयं पाठः (पृ० ७०७ गा० १६५२)। २ चेतना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org