________________
श्रीगौतमीयकाव्यं
चेतना क्षिति-जला - नल-वायुव्यूहजेयमिति चेतसि वेत्सि ॥ ३४ ॥
यद्यस्मात्कारणात् यथा सुराया मदिराया अङ्गानि अवयवभूतानि कारणानि तेषां यः समवायः समुदायो धातकी कुसुम - गुडादिकस्तस्मात् समुत्था उत्पन्ना क्षीवता मत्तता न परतः अञ्चति नान्यत्र कापि ६ गच्छति कियत्कालं स्थित्वा विनश्यतीत्यर्थः, तद्वत् क्षिति-जलाSनल-वायूनां पृथिव्यप्तेजोवायूनां यो व्यूहः समूहस्तस्माज्जाता क्षितिजलाऽनलवायुव्यूहजा इयं चेतनाऽपि न परत्र गच्छति इति त्वं ९ चेतसि चित्ते वेत्सि जानासि । अयं भावः -- यथा च मद्याङ्गेषु मदभावः प्रत्येकावस्थायामदृष्टोऽपि तत्समुदाये भूत्वा ततः कियन्तमपि कालं स्थित्वा कालान्तरे तथाविधसामग्रीवशात् कुतश्चिद्विनश्यति, १२ तथा पृथिव्यादिभूतगणेऽपि प्रत्येकमसत् चैतन्यं भूत्वा ततः कालान्तरे विनश्यति, ततो निश्चीयते भूतधर्म एव चैतन्यं, तस्मात्स एव जीवः तदेव च शरीरमिति त्वं जानासीति ॥ ३४ ॥
३
१९८
१५ वाक्यान्तरेषु पुनः शरीराद्भिन्नो जीवः श्रूयते तदाह--- स्वर्गकामुकजनस्तु यजेतेत्यादिवाचि तनु- जीवविवेकः । बोध्यते पुनरतः सद-सत्किं ? स्वास्थ्यमत्र लभसे न मुधैव ॥ ३५ ॥
तु इति विशेषे, स्वर्गकामुकः स्वर्गाभिलाषी जनो यजेत यज्ञ कुर्यात् इत्यादिवाचि एवमादिकायां वाण्यां पुनः तनु- जीवयोर्विवेको देह जीवस्य भिन्नत्वमेव बोध्यते ज्ञाप्यते, वेदेनेति शेषः । आदिशब्दात् 'न ह वै सशरीरस्य प्रियाऽप्रिययोर पहतिरस्ति अशरीरं वा २२ वसन्तं प्रियाऽप्रिये न स्पृशत' इत्यादिवेदवाक्यपरिग्रहः । अतोऽस्मा
१८
Jain Education International For Private & Personal Use Only www.jainelibrary.org