________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १९७ विनयतो विनयेन यं गुरुं प्रतिपन्नौ अङ्गीकृतवन्तौ स एव गुरुः श्रीवीरप्रभु, ममाऽपि उपास्यः सेवनीयः सन् श्रेयसे कल्याणाय भवतु ॥ ३१॥
मन्मनोमलविशोधनमद्यो
पेत्य तं जिनपतिं विदधामि । चिन्तयनिति स नाथसमीपे
पश्चखण्डिकशतैः सहितोऽगात् ॥ ३२ ॥ तं जिनपतिं उपेत्य समीपे गत्वाऽद्य मम मनसो मलस्य विशोधनं विदधामि कुर्वे इति चिन्तयन् स वायुभूतिः पञ्चखण्डिकशतैः ९ पञ्चतिछात्रैः सहितो नाथसमीपे प्रभुपार्श्वेऽगात् गच्छति स्म ॥३२॥
आजुहाव विभुरप्यमुमेवं
किं ब्रवीषि न समीरणभूते!। यां श्रुताध्ययनतो विचिकित्सा
मादधासि तनुजीवविभेदे १ ॥ ३३ ॥ विभुः श्रीवर्द्धमानप्रभुरपि अमुं वायुभूतिं एवं वक्ष्यमाणप्रकारेण १५ आजुहाव आह्वयति स्म, जल्पयति स्मेति यावत् । कथमित्याह-हे समीरणभूते ! वायुभूते ! श्रुताध्ययनतो वेदशास्त्राध्ययनात् तनुजीवयोविभेदे देह-जीवयोभिन्नत्वे यां विचिकित्सा संशयं आदधासि धारयसि तां किं न ब्रवीषि ? ॥ ३३ ॥ अथैवमुक्त्वा भगवान् खयमेव तत्संशयं प्रादुष्कुर्वन्नाहयत्सुरागसमवायसमुत्था
क्षीवता न परतोऽश्वति तद्वत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org