________________
१९६
श्रीगौतमीयकाव्यं __खण्डिकैः सह शिवोचितमार्गे
सोऽग्निभूतिरपि दीक्षित आसीत् ॥ २९॥ १ इत्थमुक्तप्रकारेण आत्महृदि खहृदये संशयभङ्गे सन्देहनिवृत्तौ सत्यां इनं श्रीवीरखामिनं सर्ववेदिनं सर्वशं प्रतिपद्य ज्ञात्वा सोऽग्निभूतिरपि खण्डिकैरछात्रैः सह शिवोचिते मुक्तियोग्य मार्गे जैने ६ इत्यर्थः । दीक्षित आसीत् प्रभुपार्श्वे दीक्षां जग्राहेत्यर्थः ॥ २९ ॥
* इति अग्निभूतेर्दीक्षाग्रहणवर्णनम् - अथ वायूभूतेस्तदाह९ वायुभूतिरथ तल्लघुबन्धुत्युग्ममपि दीक्षितमेवम् । मुक्तचारवचनादधिगत्य खे मनस्यपि भृशं विममर्श ॥३०॥
अथानन्तरं तस्याग्निभूतेलघुबन्धुर्लघुभ्राता वायुभूतिरपि, मुक्तः १२ प्रभुपाघे खयं प्रहितो यश्चारो हेरिकस्तस्य वचनादेवमुक्तप्रकारेण
भ्रातृयुग्ममपि दीक्षितं अधिगत्य ज्ञात्वा खे मनसि खकीये हृदये भृशमत्यर्थं विममर्श विचिन्तयामास । अत्र चतुर्थपादस्थोऽपिशब्दः १५ अन्वययोजनायां प्रथमपादस्थकर्तृपदाग्रे बोध्यः । अधिगत्येत्यत्र 'वा ल्यपि' (६।४।३८) इति वैकल्पिकोऽनुनासिकलोपः ॥ ३०॥
किं विममर्शेत्याह१० गन्धहस्त्युपमयोपमितौ यौ तावुभावपि बुधौ मम बन्धू । यं गुरुं विनयतः प्रतिपन्नौ श्रेयसे भवतु मे स उपास्यः॥३१॥
यस्य गन्धेन सर्वेऽपि हस्तिनो निर्मदा भवन्ति स गन्धहस्तीत्युच्यते । यो परवादिमदनिवारणे गन्धहस्तिन उपमितौ युक्ती २२ आस्तामिति शेषः । तौ उभौ अपि बुधौ पण्डितौ मम बन्धू भ्रातरौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org