________________
गौतमीय प्रकाशाख्यटीकया सहितम् । १९५
यद्यदात्मगुणधर्मविभेदे भिन्नभिन्नपरिणाममवाप्तम् | तत्तदार्य ! परिभावय मूर्त्तं क्षीरमाश्रय निदर्शनमत्र ॥ २७ ॥
आत्मगुणधर्म विभेदे आत्मगुणधर्मव्यतिरिक्तत्वे सति यद्यद्वस्तु ३ भिन्न भिन्नपरिणामं अवाप्तं प्राप्तं तत्तत् हे आर्य ! मूर्त परिभावय । अत्रार्थे निदर्शनं दृष्टान्तं क्षीरं दुग्धं आश्रय अङ्गीकुरु । अयं भावः - मूर्तं कर्म्म, आत्मादिव्यतिरिक्तत्वे सति परिणामित्वात्, क्षीरमिवेति ॥ २७ ॥
६
योग्यतापरिणतं खलु मूर्त्तं दृश्यतेऽपरमदृश्यमवेहि । ज्ञातमत्र पवनव्यणुकादि स्पष्टमेवमिह भावय कर्म ॥ २८ ॥
खलु निश्चितं, योग्यतया परिणतं मूर्तं वस्तु दृश्यते प्रत्यक्षमुपलभ्यते घटपटादिवत्, अपरं अन्यत् यद्योग्यतापरिणतं न भवति तद्वस्तु अदृश्यमप्रत्यक्षमवेहि जानीहि । अत्रार्थे पवनो वायुर्द्यणुकः १२ परमाणुद्वयनिष्पन्नः स्कन्धस्तदादि ज्ञातं दृष्टान्तः, पवनादेर्मूर्त्तत्वेऽपि घटाद्यपेक्षयाऽतिसूक्ष्मत्वेन दर्शनयोग्य परिणतेरभावाददृश्यत्वमित्यर्थः । एवं पवनादिवदिह लोके कर्माऽपि स्पष्टं निःसन्देहं भावय विचिन्तय । १५ एतेन कर्मणो मूर्त्तत्वं साधितं इह विशेषावश्यकवृत्तौ वेदोक्तद्वारे - णाऽपि कर्म साधितमस्ति तदधिकारश्च बहुत्वेन सूत्रकृताऽनुक्तत्वादिहापि न लिख्यते, विशेषार्थिना तत ( गा० १६४० पृ० ७०० १८ तः आरभ्य ) एवावसेयः ॥ २८ ॥
इत्थं भगवताभिहितेऽग्निभूतिः किं कृतवानित्याह
इत्थमात्महृदि संशयभङ्गे सर्ववेदिनमिनं प्रतिपद्य ।
Jain Education International For Private & Personal Use Only
२२
www.jainelibrary.org