SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १९४ श्रीगौतमीयकाव्यं दिकारणे भोजनादौ यदि मूर्तताऽस्ति तर्हि कर्मण्यपि सा मूर्तताऽस्त्येवेति शेषः । यद्येवं तर्हि भोजनादाविव कर्मण्यपि सा स्फुटा ३ कथं नोपलभ्यते ? इत्याशङ्कयाह-प्रस्फुटेत्यादि । तनुतया आन्तरशरीरतया सूक्ष्मतया वा कर्मणि मूर्तता प्रस्फुटा प्रकटा न हि दृष्टा, भवादृशैरिति शेषः । इदमत्र तात्पर्यम्-मूतं कर्म, तत्सम्बन्धे ६ सुखादिसंवित्तेः, इह यत्सम्बन्धे सुखादि संवेद्यते तन्मूर्त दृष्टम् , यथा अशनाद्याऽऽहारः, यच्चाऽमूर्त न तत्सम्बन्धे सुखादिसंविदस्ति, यथाऽऽकाशसम्बन्धे, संवेद्यते च तत्सम्बन्धे सुखादि, तस्मान्मूर्त ९ कर्म इति । तथा यत्सम्बन्धे वेदनोद्भवो भवति तन्मूर्त दृष्टं यथाऽमिः, भवति च कर्मसम्बन्धे वेदनोद्भवः, तस्मात्तन्मूर्त्तमिति ॥ २५ ॥ यद्यदात्मगुणधर्मविभेदे १२ बाह्यवस्तुबलतो बलधारि । तत्तदाऽऽर्य ! परिभावय मूर्त पश्य कुम्भमपि तैल-घृताक्तम् ॥ २६ ॥ १५ आत्मनो गुणानां ज्ञानादीनां च तद्धर्माणां विभेदेऽतिरिक्तत्वे सति यद्यद्वस्तु बाह्यस्य वस्तुनो बलतो बलधारि भवति तत्तद्वस्तु हे ..., आर्य! अमिभूते! त्वं मूर्त परिभावय चिन्तय । अपि पुनरत्र निदर्शनं, १८ तैल-घृताभ्यां अक्तं म्रक्षितं कुम्भं घटं पश्येत्यक्षरार्थः । भावार्थः पुन रयम्-इह यस्याऽनात्मविज्ञानादेः सतो बाह्येन वस्तुना बलमाधीयते तन्मूत दृष्टम् , यथा स्नेहादिना आधीयमानबलो घटः, आधीयते बाघैः मिथ्यात्वादिहेतुभूतैर्वस्तुभिः कर्मण उपचयलक्षणं बलं, तस्मात्तन्मूर्त२२ मिति ॥ २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy