________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १९३ कर्म सिद्ध्यतु परं तददृष्टं मूर्तमित्यविमलं प्रतिभाति । मा विधेहि मनसेति विमर्श भूय एव विपुलां शृणु युक्तिम् ॥२४॥
सुख-दुःख-शरीरादिसाधनं कर्म सिध्यतु, परं तददृष्टं दृग्विषया-३ ऽतीतं कर्म मूर्त मूर्तिमत् इत्येवं भवदुच्यमानं अविमलं प्रतिभाति, निर्मलं न प्रतिभासते इत्यर्थः । अयं भावः-'मूर्तमेव कर्म, तत्कार्यस्य शरीरादेर्मूर्तत्वात् , इह यद्यत्कार्य मूर्त तस्य तस्य कारणमपि मूर्तम् , ६ यथा घटस्य परमाणवः, यच्चाऽमूर्त कार्य न तस्य कारणं मूर्त, यथा ज्ञानस्यात्मेति, समवायिकारणं चेहाधिक्रियते, न निमित्तकारणभूता रूपा-ऽऽलोकादय' इति-युक्त्या भवद्भिः कर्मणो मूर्तत्वमुच्यते पर-९ मेतनिश्चितं न प्रतिभाति, यतः सुख-दुःखादयोऽपि कर्मणः कार्यम् । अतस्तेषाममूर्तत्वात्कर्मणोऽमूर्तत्वमपि प्राप्नोति । न हि मूर्तीदमूर्तप्रसवो युज्यते । न चैकस्य मूर्त्तत्वममूर्तत्वं च युक्तं, विरुद्धत्वात् । इति । १२ हे अग्निभूते ! इत्येवं मनसा विमर्श वितर्क मा विधेहि मा कुरु । भूयएवेति । अत्र एवशब्दोऽप्यर्थे, भूयोऽपि पुनरपि विपुलां विस्तीर्णी युक्तिं शृणु, भूय एवेति कथनादेका युक्तिरत्राऽनुक्ताऽप्यूह्या । तथा-१५ हि-अत एवाऽस्माभिरत्र समवायिकारणमधिक्रियते न निमित्त-..-. कारणम् , सुखादीनां चात्मधर्मत्वादात्मैव समवायिकारणम् । कर्म पुनस्तेषामन्नपानादिविषादिवन्निमित्तकारणमेवेति न कश्चिद्दोषः ॥२४॥१४ ___ अथ कर्मणो मूर्तत्वसाधनाय युक्त्यन्तराण्यप्याऽऽहवेद्यते सुखमथाप्यसुखं वा भोजनादिदहनाद्यनुषङ्गात् । मूर्त्ततात्र यदि कर्मणि साऽपि प्रस्फुटा तनुतया न हि दृष्टा ॥२५२१ ___ भोजनादेरशनादेर्दहनादेरम्यादेश्च अनुषङ्गः संसर्गः, तस्मात्सुखं अथापि असुखं दुःखं वा वेद्यतेऽनुभूयते प्राणिभिः । अथाऽत्र सुखा-२३
१३ गौ० का०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org