SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १९२ श्रीगौतमीयकाव्यं ननु प्रायेण लोको दृष्टमात्रफलास्खेव कृष्याद्यसत्क्रियासु प्रवर्त्तते, अदृष्टफलासु पुनर्दानादिसत्क्रियासु कतिपयमात्र एव लोकः प्रवर्त्तते, ३न बहुः । ततश्च हिंसादीनामशुभ क्रियाणामदृष्टफलाभावात् शुभक्रियाणामपि दानादीनामदृष्टफलाभावो भविष्यतीति पराऽभिप्रायमाशङ्कयाह ६ Sup २२ सत्क्रियाकरणमस्ति सदाऽल्पं दृश्यते हि बहुलं विपरीतम् । यत्र वा सकलकारणयोगोऽ निच्छतोऽपि खलु सा फलदा स्यात् ॥ २३ ॥ 3 सत्क्रियाया दानादिशुभक्रियायाः करणं विधानं सदाऽल्पमेवाऽस्ति, पुंसामिति शेषः । पुण्यवद्भिरेव तद्विधानात् तेषां चाल्प१२ त्वादिति भावः । विपरीतं कृष्याद्यशुभ क्रियाकरणं हि बहुलं प्रचुरं दृश्यते, तत्कर्तॄणामल्पपुण्यजन्तूनां बहुत्वात् । वा पुनर्यत्र यस्यां क्रियायां सकलकारणानां योगः सम्बन्धो भवेत् खलु निश्चितं सा १५ क्रिया अनिच्छतोऽपि फलमवाञ्छतोऽपि जन्तोः फलदा स्यात् । अयं भावः यद्यपि कृषि - हिंसादिक्रियाकर्त्तारो दृष्टफलमात्रार्थमेव ताः. समारभन्ते नाऽधर्म्मार्थं तथाऽप्यधर्मलक्षणं पापरूपमदृष्टफलमश्नुवते १८ एव, अनन्तसंसारिजीवाऽन्यथानुपपत्तेः, ते हिंसादिक्रियानिमित्तमनभिलषितमप्यदृष्टं पापलक्षणं फलं बध्वाऽनन्तं संसारं परिभ्रमन्तोऽनन्ता इह तिष्ठन्ति । दानादिक्रियानुष्ठातारस्तु खल्पाः, अदृष्टं धर्मरूपं फलमासाद्य क्रमेण मुच्यन्त इति ॥ २३ ॥ पुनः पराभिप्रायमाशङ्क्य भगवानाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy