________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १९१ जीवस्येति शेषः, कस्माद्धेतोः स्यात् ?, न कुतोऽपीति भावः । तस्माद्भवाऽटनहेतुभूतं शुभाऽशुभक्रियाजन्यमदृष्टं कर्मैव प्रतिपद्यखेति तात्पर्यम् ॥ २१॥ पुनः पराऽऽशङ्कामाविष्कृत्य निराकुर्वन्नाहसा क्रिया फलतु यत्फललिप्सा ।
मा परेति सफलाः सकलाः किम् । नैमिच्छति न बन्धनबाधां
चौयंकृत्किम लभेत फलं तत् ? ॥ २२ ॥ यत्फललिप्सा यस्याः क्रियायाः फलस्य लब्धुमिच्छा भवेत् सा९ क्रिया फलतु सफला भवतु परं अपराऽन्या यस्याः फललिप्सा नास्ति सा क्रिया मा फलतु इत्यतः सकलाः समस्ताः क्रियाः सफलाः फलवत्यः किं कथमुक्ता ? इत्यर्थः । एवमिति । हे गौतम ! एवं १२ चेन्मन्यसे तर्हि चौयं करोतीति चौर्यकृन्मनुष्यो बन्धनस्य बाधां पीडां नेच्छति, परं तत् चौर्यक्रियाजन्यं बन्धनबाधादिकं फलं किमु न लभेत न प्राप्नुयात् ? प्राप्नुयादेवेति भावः । यदुक्तं विशेषावश्य-१५ कवृत्तौ-'ननु दानादिक्रियाऽनुष्ठातृभिर्यददृष्टं धर्मलक्षणं फलमाशंसितं तत्तेषां भवतु, यैस्तु कृषि-हिंसादिक्रियाकर्तृभिरदृष्टमधर्मरूपं फलं नाशंसितं, तत्तेषां कथं भवति ?' इति चेत् तदयुक्तं, न १८ यविकलं कारणं खकार्य जनयत् कस्याप्याशंसामपेक्षते किन्त्वऽविकलकारणतया खकार्य जनयत्येव, इत्यादिबहुविस्तरः, स च तत (पृ० ६९२ तः आरभ्य ) एवावगन्तव्यः ॥ २२ ॥ २१
१ इह 'नैवमिच्छति न बन्धनस्य तु बाधां चौर्यकृत् किमु लभेत् तत्' इति काशीमुद्रितपाठोऽर्थवैकल्याच्छन्दोभङ्गदोषदुष्टत्वाच्च प्रामादिकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org