SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १९० श्रीगौतमीयकाव्यं तत्कर्म उदयाजाता उदयजा तां खोदयजनितां क्रियां अधिकुर्वत् अधिकृतां कुर्वत् , अग्रगामिनी कुर्वदित्यर्थः । खलु निश्चितं ३ सुख-दुःखे फले साधयेत् । एवमेव अमुना प्रकारेणैव सकला समस्ताऽपि क्रिया फलेन आढ्या समृद्धा फलाऽऽढ्या फलवती स्यात् भवेत् , तत्तस्मात्कारणादिह कर्म सिध्यति ॥ १९ ॥ ६ अथ पराऽभिप्रायमाविष्कुर्वन्नाह कीर्तिलाभफलमस्त्यथ दाने मांसभोजनफलं पशुधाते । धान्यवद्भवतु दृष्टफलैव सा क्रिया कथमदृष्टविकल्पः ॥२०॥ ९ अथेति प्रतिज्ञायां, दाने दानादिविषये कीर्तेर्यशसो लाभ एव फलमस्ति । तथा पशूनाम् अज-मृगादीनां घाते विनाशे मांसभोजनमेव फलमस्ति, न तु अदृष्टे पुण्यपापकर्मणि इति भावः । ततश्च सा क्रिया ७२ धान्यवत् कृषेर्धान्यमिव दृष्टं फलं यस्याः सा दृष्टफलैव भवतु । अदृष्टस्य विकल्पो विमर्शः कथं?, किमर्थ क्रियते इत्यर्थः । अयं भावः-कृष्यादिक्रियाः दृष्टधान्याद्यवाप्तिफला दृष्टा, अतो दानादि३५ क्रियाणामपि दृष्टमेव कीर्तिलाभादिकं फलं भविष्यति, किमदृष्टकर्मलक्षण(फल)साधनेनेति ॥ २० ॥ ' अथ पराऽभिप्रायं निराकुर्वन्नाह-- १८मा ग्रहीर्द्विजवरेति विवादं यत्तु दृष्टमिह तच विनष्टम् । स्याद्भवाऽटनमहो! वद कसाञ्चेनहीच्छसि फलं तददृष्टम् ॥२१॥ हे द्विजवर ! ब्राह्मणश्रेष्ठ ! अमिभूते ! त्वं इत्युक्तनीत्या विरुद्धो २१ वादो विवादस्तं मा ग्रहीर्मा गृहाण । कथमित्याह-~-यत्तु दृष्टं फलं तच्च इहैव विनष्टं, चेद्यदि तत् अदृष्टं कर्मलक्षणं फलं त्वं नहि इच्छसि २३ तर्हि अहो अग्मिभूते ! त्वं वद कथय-भवाऽटनं परभवे गमनं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy