________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १८९ तच्छुभाशुभकृतेः फलमेत
कर्म सिध्यति कृषेरिव धान्यम् ॥१८॥ च पुनः सह चेतनया वर्तते इति सचेतनो जीवस्तेन क्लुप्ता ३ आरब्धा या काचन क्रिया सा फलवती, सफला दृष्टेति शेषः । चेद्यदि हता न भवेत् केनचिद्दोषेण विनष्टा न भवेदित्यर्थः । किं तत्फलमित्यत आह-तदेतत् शुभाऽशुभकृतेः शुभाऽशुभक्रियायाः फलं कर्म ६ सिध्यति । कस्याः किमिव ? कृषेर्धान्यमिव, यथा कृषिक्रियायाः फलं धान्यं तथेदमपीत्यर्थः । अयं भावः-इह दानादिक्रियाणां फलमस्ति, सचेतनारब्धक्रियाणां फलसद्भावदर्शनात् , यथा कृषिक्रियायाः, इह या ९ सचेतनस्था क्रिया तस्याः फलं दृष्टं, यथा कृष्यादिक्रियायाः। सचेतनारब्धाश्च दानादिक्रियाः, तस्मात्फलवत्यः, यच्च तासां फलं तत्कर्म । या तु निष्फला क्रिया सा सचेतनारब्धाऽपि न भवति, यथा पर-१२ माण्वादिक्रिया । स्यादेतत्-'अनैकान्तिकोऽयं हेतुः, चेतनारब्धानामपि कासांचित्कृष्यादिक्रियाणां निष्फलत्वदर्शनात्'–तदयुक्तं, फलवत्त्वाभिप्रायेणैव तदारम्भात् , कचिन्निष्फलत्वमपि दृश्यते, तत्सम्यग्-१५ ज्ञानाद्यभावेन सामग्रीवैकल्याद्रष्टव्यम् । मनःशुद्ध्यादिसामग्रीविकलतया दानादिक्रिया अपि निष्फला इष्यन्त एवेत्यदोषः । शुभेत्यादि । शुभया युक्ताऽशुभा शुभाऽशुभा, सा चाऽसौ कृतिश्चेति विग्रहः॥१८॥ १८ उक्तमेवार्थ द्रढयतितक्रियामुदयजामधिकुर्वत्
साधयेत्खलु फले सुखदुःखे । एवमेव सकलाऽपि फलाट्या
स्याक्रिया तदिह सिध्यति कर्म ॥ १९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org