________________
१८८
श्रीगौतमीयकाव्यं य्यकारि वर्तते, सहायशब्दस्य पुंस्त्वेऽपि सहाय इवाचरतीति विग्रहे
आचारक्किबन्तात्पचाद्यचि क्लीवत्वं बोध्यम् । 'सहाय' इति पाठे तु ३न काऽप्यनुपपत्तिः ॥ १६ ॥ यद्विनान्यतनुसंभव एव स्यान गौतम ! विचारय चित्ते ।
मूर्तमन्तरपहाय नु मूर्त वस्तु केन सह गच्छति योगम् ॥१७॥ ६ पुनर्यत् कार्मणशरीरं विना अन्यस्य भवान्तरभाविन्यास्तनोः शरीरस्य औदारिकादेः संभव उत्पत्तिरेव न स्यात् । हे गौतम ! अग्निभूते ! त्वं चित्ते विचारय, नु इति प्रश्ने, अन्तर्मध्यवर्ति मूर्त मूर्ति९मद्वस्तु कार्मणशरीराख्यं अपहाय त्यक्त्वा बाह्यं मूर्त वस्तु औदारिकादिकं केन सह योग संबन्धं गच्छति प्राप्नोति ? अनेनाऽनुमानान्तरं
सूचितं, तच्चैवम् - "आद्यं बालशरीरं, शरीरान्तरपूर्वकं, इन्द्रियादि१२ मत्त्वात् युवशरीरवत् इति । आदिशब्दात् सुख-दुःखित्व-प्राणादयो
हेतवो ग्राह्याः । न च जन्मान्तरातीतशरीरपूर्वकमेवेदमिति शक्यते वक्तुं, तस्यापान्तरालगतावसत्त्वेन तत्पूर्वकत्वाऽनुपपत्तेः । नचाऽशरी१५रिणो नियतगर्भ-देश-स्थानप्राप्तिपूर्वकशरीरग्रहो युज्यते, नियामक
कारणाभावात् , नाऽपि खभावो नियामकस्तस्य निराकरिष्यमाणत्वात् ,
यच्चेह बालशरीरस्य पूर्व शरीरान्तरं तत्कर्मेति मन्तव्यम् , कार्मण१८ शरीरमित्यर्थः।" इत्यादि विशेषावश्यकवृत्तौ (पृ० ६९०)॥१७॥
अनुमानान्तरमपि तसिद्धये पाह
या च काचन सचेतनप्ता २१ सा क्रिया फलवती न हता चेत् । . १ प्रायशः विशेषावश्यकबृहद्वृत्त्यनुसारेणाऽयं पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org