________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १८७ पद्यते, कार्यत्वाद् , घटवत् , यश्च तत्र विशेषाऽऽधायकोऽदृष्टहेतुस्तद्वौतम ! कर्मेति प्रतिपद्यखेति' (विशेषा० बृह० गा० १६१३, पृ० ६८९) ॥ १४ ॥
अमुमेवार्थ सूत्रकारो दृष्टान्तेन द्रढयतिसाधनेष्विह समेषु विशेषो यः फलेऽस्ति स च कारणयोगात् । गौरबन्धुषु समेषु य एकः श्यामलः स विषमाशनहेतोः॥१५॥६ ___ इह लोके समेषु तुल्येषु साधनेषु सत्सु यः फले विशेषोऽस्ति, स च कारणयोगात् ज्ञेयः । यथा समेषु सर्वेषु गौरबन्धुषु गौरवर्णभ्रातृषु मध्ये य एको भ्राता श्यामलः श्यामवर्णों भवति । स विष-९ माऽशनहेतोर्विषमभोजनकारणात् । अयमर्थः-मातापित्रोरक्येऽपि भ्रातृषु यो वर्णभेदस्तत्र व्यवहाराद्भोजनवैषम्यमेव कारणं, यदुत गौरभ्रातृषु गर्भस्थितेषु मात्राऽन्यद्भोजनं विहितं श्यामे तु गर्भस्थितेऽन्य- १२ दिति । एवमिहापि, साधनसाम्ये यः सुखदुःखानुभवनयोर्विशेषः सोऽदृष्टकारणादेवेति मन्तव्यम् । विषमेत्यादि । विषमं च तदशनं च विषमाशनं तदेव हेतुस्तस्मात् ॥ १५ ॥
उक्तमेवार्थमुपसंहरन्नाहदृष्टहेतुकलने व्यभिचारं वीक्ष्य कल्पय तदेवमदृष्टम् । तच्छरीरमिह कार्मणसंज्ञं यद्भवान्तरविधानसहायम् ॥ १६ ॥ १४
तत् तस्मात्कारणात् एवमुक्तप्रकारेण दृष्टस्य हेतोः कलने विचारणे व्यभिचारं विरोधं वीक्ष्य दृष्ट्वाऽदृष्टं कल्पय चिन्तय, हेतुत्वेनेति शेषः । तददृष्टं इह कार्मणसंज्ञं कार्मणनामकं शरीरं ज्ञेयम् । तत् किम् ? यद्भवान्तरस्य एकस्माद्भवादन्यस्य भवस्य विधाने करणे सहायं साहा- २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org