________________
१८६
श्रीगौतमीयकाव्यं
"
हे अग्निभूते ! यदि भवान् दृष्टमेव रमणीपरिभोगाद्यं अङ्गनासंयोगस्रक्चन्दनादिकं सुखस्य कारणं मनुते जानाति च पुनर्विषादि ३ विषकण्टकादिकं असुखस्य दुःखस्य कारणं मनुते तर्हि तयो रमणीसंयोगादिविषाद्योः सुखदुःखकारणयोः फलं कार्यम् । तत् फलं तत्र विषमता वैषमता वैषम्यं किमस्ति ? कथमस्तीत्यर्थः । तथाहि६ तदेव वैषम्यं दर्शयतीत्यक्षरार्थः । भावार्थस्त्वयम् — ' स्रक् चन्दना - ऽङ्गनादयः सुखस्य हेतवो दुःखस्य तु अहि- विष कण्टकादय इति दृष्टमेव सुखदुःखयोर्हेतुरस्ति, किमदृष्टस्य कर्मणस्तद्धेतुत्वकल्पनेन ? नहि दृष्ट९ परिहारेणाऽदृष्टकल्पना कर्त्तुं युक्ता अतिप्रसङ्गात् ' - इति त्वं मन्यसे - तदयुक्तं, कारणसाम्येऽपि कार्यवैषम्यदर्शनादिति ॥ १३ ॥ अथ फले विषमतां दर्शयति
▬▬▬▬▬▬▬
१२ यदुगादि वनितापरिभोगे रोगहानिरपि वा विषभोगे । दृश्यते बहुतरं तददृष्टं कारणं किमपि कल्पयितव्यम् ॥ १४ ॥
यद्यस्मात्कारणाद्बहुतरं यथा स्यात्तथा, वनितापरिभागे स्त्रीसम्भोगे १५ सुखस्य कारणे सत्यपि केषाञ्चित्पुंसां रुगादि रोगोत्पत्त्यादिकं दुःखफलं दृश्यते । अपिः पुनरर्थे, वाऽथवा विषभोगे शृङ्गिकादिविषभक्षणे दुःखकारणे सत्यपि बहूनां रोगहानिः सुखफलं दृश्यते, ततस्मात्कार - १८ णात् किमपि अदृष्टं कारणं कल्पयितव्यं विचार्य्यम् । एतावता नहि अदृष्टं कमपि हेतुमन्तरेणैतदुपपद्यते, स चादृष्टहेतुः कर्मैवेति भावः । अत्र विशेषावश्यकवृत्तौ वैषम्यभावना एवं कृतास्ति, तथा २१ हि - 'इह यस्तुल्यसाधनयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरनिष्टार्थसाधनयुक्तयोश्च द्वयोर्बहूनां वा फले सुखदुःखानुभवनलक्षणे २३ विशेषस्तारतम्यरूपो दृश्यते । नाऽसौ अदृष्टं कमपि हेतुमन्तरेणोप
Jain Education International For Private & Personal Use Only www.jainelibrary.org