________________
गौतमीयप्रकाशाख्य टीकया सहितम् । १८५
त्प्रत्यक्षं तेनाऽपरस्यापि प्रत्यक्षेण भवितव्यम् । न हि शरभादयः सर्वस्यापि लोकस्य प्रत्यक्षाः, न च ते न सन्ति बालादीनामपि तत्सर्वस्य प्रसिद्धत्वात्, तस्मात् अस्ति कर्म सर्वज्ञत्वेन मया प्रत्यक्षीकृतत्वाद्भव - ३ त्संशय विज्ञानवत् इति, कार्यप्रत्यक्षतया च भवतोऽपि प्रत्यक्षमेव कर्म, यथा घटादिकार्यप्रत्यक्षतया परमाणव इति । शरभेति । 'शरभः कुञ्जराऽरातिरुत्पाद कोऽष्टपादपि' इति हैमः ॥ ११ ॥
६
एतेन न तावत्प्रत्यक्षं कर्म, अतीन्द्रियत्वात्, खरविषाणवदित्याद्यग्निभूत्यभिप्रायं निराकृत्याऽथानुमानमाह - कर्मसाधनमदोऽप्यनुमानं विद्यते तदवधारय बुद्धौ । प्राणिनामिह फले सुखदुःखे कारणं यदिह तत् किल कर्म ॥१२॥
अनभूते ! अदोऽनन्तरं वक्ष्यमाणमनुमानमपि कर्मणः साधनं हेतुभूतं विद्यते, तत्त्वं बुद्धाववधारय । तथा हि- इह लोके प्राणिनां १२ जीवानां सुखदुःखे फले विद्येते, कस्यचित्कारणस्य कार्ये स्त इत्यर्थः । अथेह सुखादौ यत्कारणं तत्किलेत्यवधारणे कर्म, उच्यते इति शेषः । कर्मणः फले सुखदुःखे इति भावः । इदमत्र तात्पर्यम् - १५ प्रतिप्राणिप्रसिद्धयोः सुखदुःखयोर्हेतुरस्ति, कार्यत्वादङ्करस्य बीजमिव । यच्चेह सुखदुःखयोर्हेतु तत्कर्मैवेति ॥ १२ ॥ अथ परस्याssशङ्कामाविष्कृत्य परिहरति
दृष्टमेव रमणीपरिभोगाद्यं सुखस्य च विषाद्यसुखस्य ।
कारणं यदि भवान्मनुते किं
तत्फले विषमताऽस्ति तथाहि ॥ १३ ॥
१८
२२
Jain Education International For Private & Personal Use Only www.jainelibrary.org