________________
श्री गौतमीयकाव्यं
सर्ववित्समधिगम्य तदीयं चित्तभावमथ वाचमवोचत् । सौम्य ! वेत्सि विषयः करणानां कर्म नो तदिदमस्ति न वेति ॥ १० ॥
अथाऽनन्तरं सर्वं वेत्तीति सर्ववित् सर्वज्ञः श्रीमहावीरस्तस्याग्नि६ भूतेरयं तदीयस्तं चित्तभाव हृदयाभिप्रायं समधिगम्य केवलज्ञानेन ज्ञात्वा वाचं वाणीं अवोचत् अवादीत् । कथमित्याह हे सौम्य ! शान्तप्रकृते ! अग्निभूते ! क्रियते मिथ्यात्वादिहेतुयुक्तेन जीवेनेति ९ कर्म ज्ञानावरणादिकं, करणानामिन्द्रियाणां विषयो गोचरो नो विद्यते, इन्द्रियगम्यं नास्तीत्यर्थः । तत्तस्मात्कारणादिदं कर्म अस्ति न वा ? इति त्वं वेत्सि खहृदये जानासि परमयमनुचितस्तव संशय १२ इति वाक्यशेषः ॥ १० ॥
तत्रोपपत्तिमाहयत्तवाsप्रकटमस्ति तदेतद्वर्त्तते प्रकटमेव ममात्र । केनचिच्छरभ सिंहगजाचे
१५
१८४
१८
"
नेक्षिताः किमु न ते खलु सन्ति १ ॥ ११ ॥
हे अग्निभूते ! अत्रास्मिन्नवसरे यत्कर्मादिकं तव अप्रकटमस्ति तदेतन्मम प्रकटमेव वर्त्तते । अथ यदि भवतः प्रत्यक्षं कर्म तर्हि ममापि तत्प्रत्यक्षं कस्मान्न भवतीत्याशङ्कयाह —– केनेत्यादि । केनचित्पुरुषेण २१ चेद्यदि शरभसिंहगजाः शरभोऽष्टापदः सिंहगजौ प्रतीतौ एवंविधाः पशवो न ईक्षिता न दृष्टास्तर्हि खलु निश्चितं ते जन्तवः किमु न २३ सन्ति ?, सन्त्येवेत्यर्थः । इदमत्र तात्पर्यम् — न हि
यदेकस्य कस्यचि -
Jain Education International For Private & Personal Use Only
www.jainelibrary.org