________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
१८३
माप प्राप्तवान् । तत्रेति । 'तन्त्रोपकरणे अपी'ति हैमः । ऋच्छनिति । 'ऋच्छ गत्यादौ' अस्माल्लटः शतृ ॥ ६॥ एहि सूरिवर! पावकभूते ! भ्रातृवत्त्वमपि संशयमुज्झ । ३ तत्र तीर्थपतिनेति स उक्तो विस्मयं मनसि बाढमुवाह ॥७॥
हे पावकभूतेऽग्निभूते ! सूरिवर विद्वद्वर ! एहि आगच्छ त्वमपि भ्रातृवद्गौतमवत् संशयं सन्देहं उज्झ परित्यज । इत्यमुना प्रकारेण तत्र ६ समवसरणे तीर्थपतिना श्रीवीरखामिना उक्तः सन् सोऽग्निभूतिर्मनसि बाढमत्यर्थं विस्मयमाश्चर्यमुवाह वहति स्म, धारयति स्मेति यावत् । वहेः कर्तरि लिट् ॥ ७ ॥ अग्निभूतिरपि वाक्यविचारे प्राविशद्धवमसौ सकलज्ञः। अन्यथा परमनोगतमेवं कः प्रकाशयति गूढविमर्शम् ? ॥ ८॥
अग्निभूतिरपि भगवदुक्तस्य वाक्यस्य विचारे विचारणे प्राविशत् १२ प्रविशति स्म । कथमित्याह-असौ जिनो ध्रुवं निश्चितं सकलज्ञः सर्वज्ञो विद्यते इति शेषः । अन्यथा सर्वज्ञमन्तरेण एवममुना प्रकारेण परस्य मनोगतं हृदयप्राप्तं गूढविमर्श गुप्तविचारं कः प्रकाशयति प्रकटी- १५ करोति, न कोऽपीत्यर्थः । ततश्च निश्चितोऽयं सर्वज्ञ इति भावः ॥८॥ वेत्ति यः परमनोविचिकित्सां निर्णयोऽपि हि भवेत्तदधीनः । तं च वक्ष्यति ततोऽयमपृष्टो मौनमेव मम साम्प्रतमस्तु ॥९॥१८ .' यः परस्यान्यस्य मनसो विचिकित्सा संशयं वेत्ति, हीति निश्चितं, तत्संशयस्य निर्णयो निश्चयोऽपि तदधीनस्तदायत्तो भवेत् , ततस्तस्माकारणात् तं च सन्देहं सनिर्णयं अयमपृष्ट एवं वक्ष्यति वदिष्यति । २१ मम तु साम्प्रतमधुना मौनमेवास्तु । विचिकित्सामिति । 'विचिकित्सा च संशयः' इति हैमः । वक्ष्यतीति । वचेः कर्तृ लट् ॥९॥२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org