________________
१८२
श्रीगौतमीयकाव्यं
स्म, स वादी छलादौ निपुणः प्रवीणो, दृश्यते इति शेषः । संप्रत्यधुना यत्किमपि कार्य वृत्तं सञ्जातं तन्निखिलं समस्तं तत्र प्रदेशे न गत्वा ३ गमनमकृत्वा न ज्ञायते, अतो ममापि तत्र गन्तव्यमिति भावः ॥३॥ यज्ञपाटकमतीत्य सुरा यन्निर्ययुस्तदभवद्विपरीतम् । मत्सहोदरपराजय एवं कोऽद्य दैव ! विषमो बत कालः! ॥४॥ ६ पूर्व तु सुरा देवा यज्ञपाटकमतीत्य विलङ्य यनिर्ययुनिर्यान्ति
म तद्विपरीतमभवत् । ततश्च एवममुना प्रकारेण मम सहोदरस्य भ्रातुः पराजयो विपरीतं कार्यमभवत् । बतेति खेदे, हे दैव ! अद्य ९ अस्मिन्नहनि को विषमः कालः समयः समजनीति शेषः ॥ ४ ॥ कोऽस्त्यसौ सुरवरैरपि सेव्यो यस्य चैष महिमा वरिवर्ति ।
दर्शनेऽस्य विहिते खलु पश्चात्तच्च मे भवतु यद्भवितव्यम् ॥५॥ १२ च पुनर्यस्य वादिन एष महिमा प्रभावो वरिवर्ति अतिशयेन
वर्त्तते । अयमसौ सुरवरैर्देवेन्द्रैरपि सेव्यः कोऽपि, सांप्रतं तु खलु निश्चितं, अस्य वादिनो दर्शने विहिते कृते सति मे मम यद्भवितव्यं १५ तद्भवतु । चः पादपूरणे । परिवर्तीति । 'वृतु धातोः' यङ्लुङ्न्ताल्लट्,
पूर्वस्य रिगागमः ॥५॥ निर्ययावयमपीति विमृश्य छात्रपञ्चशततत्रसमेतः। १८ इन्द्रभूतिरिव विस्मयमृच्छन्नाप तीर्थपतिदर्शनदेशम् ॥६॥
__ अयमग्निभूतिरपि इति उक्तप्रकारेण विमृश्य विचिन्त्य छात्राणां पञ्चशतानि छात्रपञ्चशतानि तान्येव तन्त्रं परिकरस्तेन समेतः संयुक्तः
सन् निर्ययौ गृहान्निर्गच्छति स्म । ततश्च इन्द्रभूतिरिव विस्मयमा२२ श्चर्यमृच्छन् प्राप्नुवन् तीर्थपतेः श्रीवीरभगवतो दर्शनस्य देशं प्रदेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org