________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १८१
अष्टमः सर्गः। इन्द्रभूतिमथ सोदरमऽयं दीक्षितं जिनपदेन निशम्य । अग्निभूतिरपि तल्लघुबन्धुर्भग्नवाहुरिव खेदमवाप ॥१॥ ३ विशुद्धविज्ञानकरं प्रसार्याऽग्निवायुभूती भवसिन्धुमध्यात् । समुद्धृतो येन जिनेश्वराय नमोऽस्तु तस्मै त्रिशलात्मजाय ॥ १॥ . अथानन्तरं अग्रे भवमग्र्यं प्रथममित्यर्थः । सोदरं भ्रातरं इन्द्रभूतिं ६ गौतमं जिनपदेन जिनवाक्येन दीक्षा जाता अस्येति दीक्षितस्तं निशम्य श्रुत्वा तस्येन्द्रभूतेलघुबन्धुर्लघुभ्राता अग्निभूतिरपि भग्नो बाहुयस्य स भग्नबाहुरिव खेदं शोकमवाप प्राप्तवान् । पदेनेति । 'पदं९ स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः' इत्यादि हैमः । अस्मिन्सर्गे खागतावृत्तं, तल्लक्षणं तु 'खागतेति रनभाद्गुरुयुग्म मिति ॥ १॥
अथाऽसौ किं शुशोचेत्याहयं बृहस्पतिरपि श्रुतिवादे जेतुमर्हति न युक्तिपृषकैः । सोऽपि केनचिदहो! निगृहीतो हन्त ! दैवरचितं हि दुरन्तम् ॥२॥
बृहस्पतिरपि सुराचार्योऽपि श्रुतीनां वेदानां वादे युक्तिपृषत्कैरू-१५ पपत्तिबाणैर्य मद्भातरं जेतुं न अर्हति न योग्यो भवति, न शक्नोतीत्यर्थः । अहो इत्याश्चर्ये, सोऽपि माता केनचिद्वादिना निगृहीतो निर्जितः। हि यस्मात्कारणात् हन्तेति विषादे, देवेन यद्रचितं १८ तत् दुरन्तं दुरवसानं, भवतीति शेषः ॥ २॥ भ्रातरं मम महान्तमजैषीद्यश्छलादिनिपुणः स च वादी । तत्र यत्किमपि संप्रति वृत्तं ज्ञायते न निखिलं तदगत्वा ॥३॥
च पुनः, यो वादी मम महान्तं ज्येष्ठं प्रातरं गौतमं अजैषीत् जयति २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org